________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
१७५
-
वेर्विस्तृते शाल-शङ्कटौ ७।१।१२३॥ वेर्विस्तृतेऽर्थे 'शाल-शङ्कटौ' स्याताम् । विशालः, विशङ्करः ॥१२३॥
कटः ७।१।१२४॥ वेर्विस्तृतेऽर्थे 'कटः' स्यात् । विकटः ॥१२४॥
सं-प्रोनेः संकीर्ण-प्रकाशा-ऽधिक-समीपे ७।१।१२५॥ एभ्यो यथासङ्ख्यमेष्वर्येषु 'कटः' स्यात् । सङ्कटः, प्रकटः, उत्कटः, निकटः ।।
अवात कुटारश्चावनते ७।१।१२६॥ अवादवनतेऽर्थे 'कुटारः कटश्च' स्यात् । अवकुटारः, अवकटः ॥१२६।।
नासानति-तद्धतोष्टीट-नाट-भ्रटम् ।७।१।१२७॥ अवान्नासानती तद्वति चार्थे ‘एते' स्युः । अवटीटम्, अवनाटम्, अवभ्रटं नासानमनम्, तद्वद् वा नासादि ॥१२७॥
नेरिन-पिट-काश्चिक-चि-चिकचाऽस्य ।७।११२८॥ ने सानतौ तद्वति चार्थे 'एते' स्युः, तद्योगे च नेर्यथासङ्ख्यं 'चिक्-चिचिकः' । चिकिनम्, चिपिटम्, चिकं नासानमनं नासादि च ॥१२८।।
बिड-बिरीसौ नीरन्प्रे च ७।१।१२९॥ नेीरन्ने नासानति-तद्वतोश्च ‘एती' स्याताम् । निबिडाः, निबिरीसाः केशाः, निबिडम्, निबिरीसं नासानमनं नासादि च ॥१२९॥
किनालश्चक्षुषि चित्-पिल्-चुर चास्य ।७।१।१३०॥ किनाच्चक्षुष्यर्थे 'ल:' स्यात्, तघोगे चास्य 'चिल्-पिल्-चुलः' । चिल्लम्, पिल्लम्, चुल्लं चक्षुः ॥१३०॥
उपत्यका-ऽपित्यके 1७1१1१३१॥ 'एतौ' निपात्येते । उपत्यका गिर्यासना भूः, अधित्यका पर्वताऽधिरूढा भूः ।।