________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
पीत्वादेः कुणः पाके | ७|११८७ ॥
एभ्यस्तस्य पाके 'कुणः' स्यात् । पीलुकुणः शमीकुणः ॥ ८७ ॥ कणदिर्मूले जाहः | ७|१|८८ ॥
१७१
एभ्यस्तस्य मूलेऽर्थे 'जाहः' स्यात् । कर्णजाहम्, अक्षिजाहम् ||८८|| पक्षात् तिः ।७।१।८९ ॥
पक्षात् तस्य मूलेऽर्थे 'तिः' स्यात् । पक्षतिः ॥ ८९ ॥ हिमालुः सहे |७|१|१०||
हिमात् तस्य सहमानेऽर्थे 'एल' स्यात् । हिमेलुः ||९० | बल - वातादूलः ।७।१।९१॥
आभ्यां तस्य सहेऽर्थे 'ऊल:' स्यात् । बलूलः, वातूलः ॥९१॥ शीतोष्ण - तृप्रादालुरस | ७|१।९२ ॥
एभ्यस्तस्यासहेऽर्थे 'आलुः' स्यात् । शीतालुः, उष्णालुः, तृप्रालुः ॥९२॥ यथामुख- संमुखादीनस्तद् दृश्यतेऽस्मिन् ॥७|१|९३॥ आभ्यां तदिति-स्यन्ताभ्याम्, अस्मिन्निति - ड्यर्थे 'ईनः' स्यात्, स्यन्तं चेद् दृश्यते । यथामुखं प्रतिबिम्बम्, यथामुखीन आदर्शः, एवं संमुखीनः ॥ ९३ ॥ सर्वादिः पथ्य-कर्म-पत्र - पात्र - शरावं व्याप्नोति | ७|१|९४ ॥ सर्वशब्दपूर्वेभ्य एभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे 'ईनः' स्यात् । सर्वपथीनो
रथः सर्वाङ्गीणस्तापः सर्वकर्मीणो ना, सर्वपत्रीणो यन्ता, सर्वपात्रीणं भक्तम्,
•
P
सर्वशरावीणमोदनम् ॥९४॥
आप्रपदम् | ७|१|९५ ॥
आ पदाग्राद् आप्रपदम्, अस्मादमन्ताद् व्याप्नोतीत्यर्थे 'ईनः' स्यात् । आप्रपदीनः पटः || ९५||