________________
१७०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अस्माद् ऋत्विगर्थात् तस्य भावे कर्मणि 'त्वः' स्यात् । ब्रह्मत्वम् ॥७७॥ शाकट - शाकिनौ क्षेत्रे | ७|१|७८ ||
षष्ठ्यन्तात् क्षेत्रेऽर्थे 'एती' स्याताम् । इक्षुशाकटम्, शाकशाकिनम् ||७८|| धान्येभ्य ईनञ् | ७|१|७९ ॥
धान्यार्थेभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे 'ईनञ्' स्यात् । मौद्गीनम्, कौद्रवीणम् ॥ व्रीहि - शालेरेयण | ७|१|८०|
आभ्यां तस्य क्षेत्रे 'एयण्' स्यात् । त्रैहेयम्, शालेयम् ॥८०॥ यव - यवक - षष्टिकाद् यः | ७|१|८१ ॥
एभ्यस्तस्य क्षेत्रे 'यः' स्यात् । यव्यम् यवक्यम्, षष्टिक्यम् ||८१ || वाऽणु- माषात् ।७।१।८२ ॥
आभ्यां तस्य क्षेत्रे 'यो वा' स्यात् । अणव्यम्, आणवीनम्; माष्यम्, माषीणम् ॥ ८२ ॥
बोमा भङ्गा - तिलात् 1७1१1८३ ॥
एभ्यस्तस्य क्षेत्रेऽर्थे 'यो वा' स्यात् । उम्यम्, औमीनम् भङ्ग्यम्, भाङ्गीनम्, तिल्यम्, तैलीनम् ॥८३॥
अलाब्वाश्च कटो रजसि | ७|१|८४ |
अस्मादुमादेश्च तस्य रजस्यर्थे 'कटः' स्यात् । अलाबूकटम्, उमाकटम्, भङ्गाकटम्, तिलकटम् ॥८४॥
अह्ना गम्येऽश्वादीनञ् | ७|१/८५ ॥
षष्ठ्यन्तादश्वादेकेनाह्ना गम्येऽर्थे 'ईनञ्' स्यात् । आश्वीनोऽध्वा ॥ ८५ ॥ कुलाज्जल्पे | ७|१|८६ ॥ षष्ठ्यन्तात् कुलाज्जल्पेऽर्थे 'ईनञ्' स्यात् । कौलीनः ॥८६॥