________________
-
श्रीसिदहेमचन्द्रशब्दानुशासनम
_१६९
१६९ परमपौरुषमिति मा भूत् ॥७०॥
श्रोत्रियाद् यलुक च ७१७१॥ अस्मात् तस्य भावे कर्मणि चा-'ऽण्' स्यात्, तद्योगे 'यस्य लुक्' च । श्रौत्रम्, श्रोत्रियत्वम्, श्रोत्रियता, श्रोत्रियकम् ॥७१।।
योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ् ७१।७२॥ यादीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम्, तद् गुरुर्यस्य तस्माद, युपान्त्यात्, सुप्रख्यवर्जात् तस्य भावे कर्मणि चा-'ऽकम् स्यात् । रामणीयकम्, रमणीयत्वम्, रमणीयता; एवम्- आचार्यकम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम्, कायत्वम् । असुप्रख्यादिति किम् ? सुप्रख्यत्वम्, सौप्रख्यम् ॥७२॥
चौरादेः ७११७३॥ एभ्यस्तस्य भावे कर्मणि चा-'ऽकञ्' स्यात् । चौरिका, चौरत्वम्, चौरता; एवं- धौर्तिका ॥७३॥
द्वन्दालित ७११७४॥ द्वन्द्वात् तस्य भावे कर्मणि च 'लिद् अकञ्' स्यात् । वैत्रिका, विनृत्वम्, विनृता ॥७४||
गोत्र-चरणासाघा-ऽत्याकार-प्राप्त्यवगमे ७११७५॥ गोत्रार्य-चरणार्याभ्यां तस्य भावे कर्माण च 'लिदकम् स्यात्, श्लाघाऽऽदिविषये । गार्गिकया श्लाघते, अत्याकुरुते वा, गार्गिकां प्राप्तोऽवगतो वा, एवंकाठिकयेत्यादि । श्लाघादिष्विति किम् ? गार्गम्, काठम् ॥७५॥
होत्राभ्य ईयः ७१७६॥ होत्रा- ऋत्विग्विशेषः, तदर्यात् तस्य भावे कर्मणि च 'ईयः' स्यात् । मैत्रावरुणीयम् । त्वतलावपि ॥७६॥
ब्रह्मणस्त्वः ७१७७॥