SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १६१ धनगणालब्धरि ७१।९॥ आभ्याममन्ताभ्यां लब्धर्यर्थे 'यः' स्यात् । धन्यः, गण्यः ॥९॥ णोऽत्रात ७1१1१०॥ अत्राद् अमन्तात् लब्धरि ‘णः' स्यात् । आनः ॥१०॥ हृय-पय-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य जन्य-धर्म्यम् ७१११॥ एतेऽर्थविशेषेषु 'यान्ता' निपात्याः । हघमौषधम्, पधः पङ्कः, तुल्यं भाण्डं सदृशम्, मूल्यं धान्यं पटादिविक्रयाल्लभ्यं च, वश्यो गौः, पथ्यमोदनादि, वयस्यः सखा, धेनुष्या पीतदुग्धा गौः, गार्हपत्यो नामाग्निः, जन्या वरवयस्याः, धर्म्य सुखम् ॥११॥ नौ-विषेण तार्य-वध्ये ७।१।१२॥ आभ्यां निर्देशादेव तृतीयान्ताभ्यां ययासंख्यं तार्ये वध्ये चार्थे 'यः' स्यात् । नाव्या नदी, विष्यो गजः ॥१२॥ न्यायाऽर्थादनपेते ७।११३॥ आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे 'यः' स्यात् । न्याय्यम्, अर्थ्यम् ।।१३॥ मत-मदस्य करणे ७११११४॥ आभ्यां षड्यन्ताभ्यां करणे 'यः' स्यात् । मत्यम्, मद्यम् ॥१४॥ तत्र साधौ ७१११५॥ तत्रेति-सप्तम्यन्तात् साधावर्ये 'यः' स्यात् । सभ्यः ॥१५॥ पथ्यतिथि-वसति-स्वपतेरेयण ७।१।१६॥ एभ्यस्तत्र साया-'वेयण' स्यात् । पाथेयम्, आतियेयम्, वासतेयम्,. स्वापतेयम् ॥१६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy