________________
१६० श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
॥ अहम् ॥ [अथ सप्तमाध्यायस्य प्रथमः पादः,
यः ७।११॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादर्वाग् 'य' इत्यधिकृतं ज्ञेयम् ॥१॥
वहति रथ-युग-प्रासङ्गात् ७/१२॥ तमिति वर्तते, एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे 'यः' स्यात् । द्विरय्यः, युग्यः, प्रासङ्गो-वत्स-दमन-स्कन्ध-काठम, प्रासङ्ग्यः ॥२॥
धुरो यैयण ७१३॥ धुरो द्वितीयान्ताद् वहत्यर्थे “एती' स्याताम् । धुर्यः, धौरेयः ॥३॥
वामायादेरीनः ७१।४॥ वामादिपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे 'ईनः' स्यात् । वामधुरीणः, सर्वधुरीणः ॥४॥
__ अकादेः १७१५॥ एकपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे 'अ ईनश्च' स्यात् । एकधुरः, एकधुरीणः ॥५॥
हल-सीरादिकण् ७।१६॥ आभ्यां तं वहत्यर्ये 'इकण् स्यात् । हालिकः, सैरिकः ॥६॥
शकटादण् ।७।११७॥ अस्मात् तं वहत्यर्थे-'उण्' स्यात् । शाकटो गौः ॥७॥
विध्यत्यनन्येन ७११८॥ द्वितीयान्ताद् विध्यत्ययें 'यः' स्यात्, न चेदात्मनोऽन्येन करणेन विध्येत् । पयाः-शर्कराः । अनन्येनेति किम् ? चौरं विध्यति चैत्रः ॥८॥