________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५९ 'एते तमर्हतीत्यर्थे 'ईनजन्ता' निपात्याः । शालीनोऽधृष्टः, कोपीनं पापकर्मादि, आर्खिजीनो यजमान ऋत्विग् वा ॥१८५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः समाप्तः ॥६४॥
भूमि कामगवि ! स्वगोमयरसैरासिध रलाकरा !, मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव । धृत्वा कल्पतरोर्दलानि सरलर्दिग्वारणास्तोरणा-, न्यायत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥२४॥
॥ इति षष्ठोऽध्यायः ॥