SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् संख्यार्थात् तदस्य मानमिति विषये स्तोमेऽर्थे 'डट्' स्यात् । विंशः स्तोमः ॥१७६॥ तमर्हति |६|४|१७७॥ तमिति - द्वितीयान्तादर्हदर्थे 'यथोक्तं प्रत्ययः' स्यात् । वैषिकः, साहस्रः || दण्डादेर्यः | ६ |४|१७८ ॥ एभ्यो द्वितीयान्तेभ्योऽर्हदर्थे 'यः' स्यात् । दण्ड्यः, अर्ध्यः ॥१७८॥ यज्ञादियः | ६|४|१७९ ॥ द्वितीयान्ताद् यज्ञादर्हति 'इयः' स्यात् । यज्ञियो देशः || १७९ || पात्रात् तौ |६|४|१८० ॥ द्वितीयान्तात् पात्राद् अर्हति 'येयौ' स्याताम् । पात्र्यः पात्रियः ॥१८०॥ दक्षिणा - कडङ्गर - स्थालीबिलादीय-यौ |६|४|१८१ ॥ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे 'ईययौ' स्याताम् । दक्षिणीयो, दक्षिण्यो गुरुः; कडङ्गरीयः, कडङ्गर्यो गौः; स्थालीबिलीयाः, स्थालीबिल्यास्तण्डुलाः ||१८१ ॥ छेदादेर्नित्यम् |६|४|१८२ ॥ अस्माद् द्वितीयान्तान्नित्यमर्हति 'यथोक्तं प्रत्ययः' स्यात् । छेदिकः, भैदिकः ॥१८२॥ विरागाद् विरच | ६|४|१८३ ॥ अस्माद् द्वितीयान्तान्नित्यमर्हति 'यथोक्तं प्रत्ययः स्यात्, तद्योगे चास्य 'विरङ्गः' । वैरङ्गिकः ||१८३|| शीर्षच्छेदाद् यो वा | ६ |४|१८४ ॥ अस्माद् द्वितीयान्तान्नित्यमर्हति 'यो वा' स्यात् । शीर्षच्छेद्यः, शैर्षच्छेदिकःश्चौरः ||१८४॥ शालीन - कौपीना - ऽऽर्त्विजीनम् | ६ |४|१८५ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy