________________
१६२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
भक्ताण्णः ।७।१।१७॥ भक्तात् तत्र साधौ ‘णः' स्यात् । भाक्तः शालिः ॥१७॥
पर्षदो ण्य-णौ ७११८॥ तत्र साधी स्याताम् । पार्षद्यः, पार्षदः ॥१८॥
सर्वजनाण्ण्येनजौ 1७191१९॥ तत्र साधौ स्याताम् । सार्वजन्यः, सार्वजनीनः ॥१९॥
प्रतिजनादेरीनञ् ७।१।२०॥ तत्र साधौ स्यात् । प्रातिजनीनः, आनुजनीनः ॥२०॥
कथादेरिकण ७।१।२१॥ तत्र साधी स्यात् । कायिकः, वैकथिकः ॥२१॥
देवतान्तात् तदर्थे ।७।१।२२॥ देवतान्तात् तदर्थे 'यः' स्यात् । अग्निदेवत्यं हविः ॥२२॥
पाया-ऽध्ये ७१॥२३॥ एतौ तदर्थे 'यान्तौ' निपात्यौ । पाधं जलम्, अय रलम् ॥२३॥
ज्योऽतिथेः ७।१।२४॥ तदर्थेऽर्थे स्यात् । आतिथ्यम् ॥२४॥
सादेवा तदः ७।१।२५॥ "तद्" (७, १, ५०) इति सूत्रं यावत् केवलस्य सादेश्च वक्ष्यमाणो विधिज्ञेयः ॥२५॥
हलस्य कर्षे ७१।२६॥ हलात् षड्यन्तात् कर्षेऽर्थे 'यः' स्यात् । हल्या, द्विहल्या ॥२६॥
सीतया संगते ७।१।२७॥