________________
-
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
१५५ आभ्यां षष्ट्यन्ताभ्यामीश-ज्ञातयोस्तस्य हेतुः संयोग उत्पात इति विषये चा'ऽञ्' स्यात् । पार्थिवः, सार्वभौम ईशो ज्ञातः संयोगोत्पातरूपो हेतुर्वा ।।१५६॥
लोक-सर्वलोकान्जाते ।।४।१५७॥ आभ्यां षड्यन्ताभ्यां ज्ञातेऽर्थे 'ययोक्तं प्रत्ययः' स्यात् । लौकिकः, सार्वलौकिकः ॥१५७॥ तदत्राऽस्मै वा वृद्ध्याय-लाभोपदा-शुल्कं देयम् ।६।४१५८॥ तदिति- प्रथमान्ताद् अत्रेति- सप्तम्यर्थेऽस्मै इति-चतुर्थ्यर्थे वा 'यथोक्तं प्रत्ययः' स्यात्, तच्चेत् प्रथमान्तं वृद्ध्यादि देयं च स्यात् । वृद्धिः- पञ्चकं शतम्, आयः- पञ्चको ग्रामः, लाभः- पञ्चकः पटः, उपदा-लञ्चः- पञ्चको व्यवहारः, शुल्कं- पञ्चकं शतम्, एवं शत्यं, शतिकम् ॥१५८॥
पूरणा-ऽर्धादिकः ।६।४।१५९॥ पूरणप्रत्ययान्तादर्धाच प्रयमान्ताद् अस्मिन् अस्मै वा दीयते इत्यर्थयो 'रिकः' स्यात्, प्रथमान्तं चेद् वृद्ध्यादि । द्वितीयिकः, अर्धिकः ॥१५९॥
भागाद् येकौ ।६।४१६०॥ भागात् तदस्मिन्त्रस्मै वा वृद्ध्याधन्यतमं देयमिति विषये 'येकी' स्याताम् । भाग्यः, भागिकः ॥१६॥
तं पचति द्रोणाद् वाऽञ् ।६।४।१६१॥ तमिति- द्वितीयान्ताद् द्रोणात् पचत्यर्थे 'वाऽञ्' स्यात् । द्रौणी, द्रौणिकी स्थाली ।।१६१॥
सम्भवदवहरतोश्च ।६।४।१६२॥ द्वितीयान्तात् पचत्- सम्मवदवहरत्सु 'यथोक्तं प्रत्ययः' स्यात् । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः, अतिरेकेणावहारः । प्रास्थिकी स्थाली ।