SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एतदन्ताद् द्विगोराभ्यां चाऽऽहंदर्थे 'कच्' स्यात् । द्विखारीकम्, द्विकाकणीकम्, खारीकम्, काकणीकम् ॥१४९॥ मूल्यैः क्रीते ।६।४।१५०॥ मूल्यार्थाट्टान्तात् क्रीतेऽर्थे 'ययोक्तं प्रत्ययाः' स्युः । प्रास्थिकम्, त्रिंशकम् ॥ तस्य वापे १६४१५१॥ तस्येति- षड्यन्ताद् वापेऽर्थे 'यथोक्तं प्रत्ययाः' स्युः । प्रास्थिकम्, खारीकम् ॥१५१॥ वात-पित्त-श्लेष्म-सनिपाताच्छमन-कोपने ६।४।१५२॥ एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे 'यथोक्तमिकण्' स्यात् । वातिकम्, पैत्तिकम्, श्लैष्मिकम्, सानिपातिकम् ॥१५२॥ हेतौ संयोगोत्पाते ।।४१५३॥ षष्ट्यन्ताद् हेतावर्थे 'यथोक्तं प्रत्ययः' स्यात्, चेद् हेतुः संयोग उत्पातो वा । शत्यः शतिको दातृसंयोगः, सोमग्रहणिको भूमिकम्पः ।।१५३॥ पुत्राद् येयौ ।६।४।१५४॥ पुत्रात् षष्ठ्यन्ताद् हेतावर्थे 'येयौ' स्याताम्, चेद्धेतुः संयोग उत्पातो वा । पुत्र्यः, पुत्रीयः ॥१५४॥ द्विस्वर-ब्रह्मवर्चसाद् योऽसङ्ख्या-परिमाणा-ऽश्वादेः ।६।४१५५॥ संख्या-परिमाणा-ऽश्वादिवर्जात् द्विस्वराद् ब्रह्मवर्चसाच्च षड्यन्ताद् हेतौ संयोगे उत्पाते वा 'यः' स्यात् । धन्यः, ब्रह्मवर्चस्यः । संख्यादिवर्जनं किम् ? पञ्चकः, प्रास्थिकः, आश्विकः ॥१५५॥ पृथिवी-सर्वभूमेरीश-ज्ञातयोश्चाञ् ।६।४।१५६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy