________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५३
नवाऽण: 11४1१४२॥ द्विगोः परस्याऽऽहंदर्थे-'ऽणः पित् लुब् वा' स्यात्, 'न तु द्विः' । द्विसहस्रम्, द्विसाहस्रम् ॥१४२॥
सुवर्ण-कार्षापणात् ।६।४।१४३॥ एतदन्ताद् द्विगोः परस्याऽऽहंदर्थे 'प्रत्ययस्य लुब् वा' स्यात्, 'न तु द्विः' । द्विसुवर्णम्, द्विसौवर्णिकम्: द्विकार्षापणम्, द्विकार्षापणिकम् ॥१४३॥
द्वि-त्रि-बहोर्निष्क-विस्तात् ।६।४।१४४॥ एभ्यः परौ यौ निष्क-विस्तौ तदन्ताद् द्विगोराऽहंदर्थे 'प्रत्ययस्य लुब् वा' स्यात्, 'अद्विः' । द्विनिष्कम्, द्विनैष्किकम्: त्रिनिष्कम्, त्रिनष्किकम्; बहुनिष्कम्, वहुनैष्किकम्: द्विविस्तम्, द्विवैस्तिकम्। त्रिविस्तम्, त्रिवैस्तिकम्; बहुविस्तम्, बहुवैस्तिकम् ॥१४॥
शताद् यः ।६।४।१४५॥ शतान्ताद् द्विगोराऽर्हदर्थे 'यो वा' स्यात् । द्विशत्यम्, द्विशतम् ॥१४५॥
शाणात ६०४१४६॥ शाणान्ताद् द्विगोराऽहंदर्ये 'यो वा' स्यात् । पञ्चशाण्यम्, पञ्चशाणम् ॥
द्वि-त्र्यादेर्याऽण् वा ।६।४।१४७॥ द्वित्रिपूर्वो यः शाणस्तदन्ताद् द्विगोराऽहंदर्थे 'या-ऽणी वा' स्याताम् । द्विशाण्यम्, वैशाणम्: द्विशाणम्, त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् ॥१४७॥
पण-पाद-माषाद् यः ।६।४।१४८॥ पणाधन्ताद् द्विगोराहदर्थे 'यः' स्यात् । द्विपण्यम्, द्विपाद्यम्, अध्यर्धमाष्यम् ॥१४८॥
खारी-काकणीभ्यः कच् ।६।४।१४९॥