________________
१५२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अत्वन्तसंख्याया आर्हदर्थे 'इकोवा' स्यात् । यावतिकम्, यावत्कम् ॥१३२॥ कार्षापणादिकट् प्रतिश्चास्य वा १६ |४|१३३ ॥
अस्मादार्हदर्थे ‘इकट्’' स्यात्, अस्य च 'प्रतिर्वा' । कार्षापणिकी, प्रतिकी ॥१३३॥ अर्थात् पल - कंस - कर्षात् |६|४|१३४ ॥
अर्धपूर्वात् पलाद्यन्तादार्हदर्थे 'इकट्' स्यात् । अर्धपलिकम्, अर्धकंसिकम्, अर्धकर्षिकी ॥१३४॥
कंसा - ऽर्धात् ।६।४।१३५॥
आभ्यामाऽर्हदर्थे–‘इकट्' स्यात् । कंसिकी, अर्धिकी ॥१३५॥
सहस्र- शतमानादणू | ६ |४|१३६ ॥
आभ्यामाऽर्हदर्थे- 'ऽण् स्यात् । साहस्रः शातमानः ॥ १३६ ॥ शूर्पाद् वाऽञ् |६|४|१३७॥ आऽर्हदर्थे वा‘ऽञ्' स्यात् । शौर्पम्, शौर्षिकम् ॥१३७॥
वसनात् |६|४|१३८ ॥
आऽर्हदर्थे'ऽञ्' स्यात् । वासनम् ॥१३८॥
विंशतिकात् ।६।४।१३९॥
आऽर्हदर्थे-'ऽञ्' स्यात् । वैंशतिकम् ॥१३९॥
द्विगोरीनः | ६|४|१४०॥
विंशतिकान्ताद् द्विगोराऽर्हदर्थे 'ईनः' स्यात् । द्विविंशतिकीनम् ॥१४०॥ अनाम्यद्विः प्लुप् |६|४|१४१ ॥
द्विगोरार्हदर्थे जातस्य प्रत्ययस्य 'पित् लुप् स्यात्, 'न तु द्विः' अनाम्नि । द्विकंसम् । अनाम्नीति किम् ? पाञ्चलोहितिकम् । अद्विरिति किम् ? द्विशूर्पेण क्रीतं द्विशीर्पिकम् ॥ १४१ ॥