________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १५१ कालात् सोऽस्य प्राप्त इत्यर्थे 'यः' स्यात् । काल्या मेघाः ।।१२६।।
दीर्घः ।६।४।१२७॥ कालात् प्रथमान्तादस्येत्यर्थे 'इकण्' स्यात् । प्रथमान्तश्चेद् दीर्घः । कालिकमृणम् ॥१२७॥
आकालिकमिकञ्चायन्ते ।६।४।१२८॥ आकालिकाद् 'इक इकण च' भवत्यर्थे स्यात्, आदिरेव यदि अन्तः । आकालिकोऽनध्यायः, पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेधुरपि आ तस्मात् कालाद् भवतीत्यर्थः; आकालिकी, आकालिका वा विद्युत्, आजन्मकालमेव स्यात्, जन्मानन्तरनाशिनीत्यर्थः ॥१२८॥
त्रिंशद्-विंशतेर्डकोऽसंज्ञायामाऽर्हदथे ।६।४।१२९॥ आभ्यामा अर्हदयद् योऽर्थो वक्ष्यते तस्मिन् 'डकः' स्यात्, असंज्ञाविषये । त्रिंशकम्, विंशकम्, त्रिंशकः, विंशकः । असंज्ञायामिति किम् ? त्रिंशत्कम्, विंशतिकम् ॥१२९||
सङ्ख्या -डतेचाऽशत्-ति-प्टेः कः ।६।४।१३०॥ शदन्त-त्यन्त-ट्यन्तवर्जसंख्याया डत्यन्तात् त्रिंशविंशतिभ्यां चाऽहंदर्ये 'कः स्यात् । द्विकम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिथेरिति किम् ? चात्वारिंशत्कम्, साप्ततिकम्, षाष्टिकम् ।।१३०॥
शतात् केवलादतस्मिन् येकौ ।६।४।१३१॥ शतात् केवलादाऽहंदर्ये 'येको' स्याताम्, स चेदर्थः प्रकृत्यर्थाद् नाऽमित्रः । शत्यम्, शतिकम् । केवलादिति किम् ? द्विशतकम् । अतस्मिन्निति किम् ? शतकं स्तोत्रम् ॥१३॥
वाऽतोरिकः ।६।४।१३२॥