SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पात्रा-ऽऽचिता-ऽऽढकादीनो वा ।६।४।१६३॥ एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे 'ईनो वा' स्यात् । पात्रीणा, पात्रिकी; आचितीना, आचितिकी; आढकीना, आढकिकी ॥१६३।। द्विगोरीनेकटौ वा ।६।४१६४॥ पात्रा-ऽऽचिता-ऽऽढकान्ताद् द्विगोद्धितीयान्तात् पचदाद्यर्थे 'ईनेकटी वा' स्याताम्, पक्षे 'इकण', तस्य चानाम्नीत्यादिना 'प्लुप् न' अनयोर्विधानबलात् । द्विपात्रीणा, द्विपात्रिकी, द्विपात्री; याचितीना, याचितिकी, याचिता; याढकीना, याढकिकी, याढकी ॥१६४॥ कुलिजाद् वा लुप् च ।६४।१६५॥ कुलिजान्ताद् द्विगोद्धितीयान्तात् पचदाद्यर्थे 'ईनेकटौ वा' स्याताम्, पक्षे 'इकण' तस्य च 'वा लुप्' । द्विकुलिजीना, द्विकुलिजिकी, द्विकुलिजः, द्वैकुलिजिकी ॥१६५॥ वंशादेर्भाराद्धरद्-वहदावहत्सु ।६।४।१६६॥ एभ्यः परो यो भारस्तदन्ताद् द्वितीयान्तादेष्वर्थेषु 'यथोक्तं प्रत्ययः' स्यात् । वांशभारिकः, कौटभारिकः ॥१६६॥ द्रव्य-वस्नात् केकम् ।६४१६७॥ आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासंख्यं 'क इकश्च' स्यात् । द्रव्यकः, वस्निकः ।।१६७॥ सोऽस्य भृति-वस्नांशम् ।६।४१६८॥ स इति- प्रथमान्ताद् भृत्याद्यर्याद् अस्येति- षष्ठ्यर्थे 'यथोक्तं प्रत्ययः' स्यात् । पञ्चकः कर्मकृत् पटो ग्रामो वा, साहनः ॥१६८॥ मानम् ।६।४।१६९॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy