SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४९ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् दिवर्षः, द्विवर्षीणः, द्विवार्षिकः ॥११॥ प्राणिनि भूते ।६।४।११२॥ कालार्थवर्षान्ताद् द्विगोभूते प्राणिन्यर्थे 'अ' स्यात् । द्विवर्षों वत्सः । प्राणिनीति किम् ? द्विवर्षः, द्विवर्षीणः द्विवार्षिकः, सरकः ।।११२॥ मासाद् वयसि यः ।।४।११३॥ मासान्ताद् द्विगोभूतेऽर्थे 'यः' स्यात्, वयसि गम्ये । द्विमास्यः शिशुः ।। वयसीति किम् ? द्वैमासिको व्याधिः ॥११३॥ ईनञ् च ।६।४।११४॥ मासाद् भूतेऽर्थे 'ईनञ् यश्च' स्यात्, वयसि गम्ये । मासीनः, मास्यः शिशुः ॥११४॥ षण्मासाद् य-यणिकण ।६।४।११५॥ अस्मात् कालार्थाद् भूतेऽर्थे 'एते' स्युः, वयसि गम्ये । षण्मास्यः, पाण्मास्यः, पाण्मासिकः शिशुः ॥११५॥ सोऽस्य ब्रह्मचर्य-तद्वतोः ।६।४।११६॥ स इति-प्रथमान्तात् कालादिस्येति-षड्यर्थे, ब्रह्मचर्ये, ब्रह्मचारिणि चे-'कण स्यात् । मासिकं ब्रह्मचर्यम्, मासिकस्तद्वान् ।।११६॥ प्रयोजनम् ।६।४।११७॥ प्रथमान्तात् षष्ठ्यर्थे 'इकण्' स्यात्, प्रथमान्तं चेत् प्रयोजनम् । जैनमहिकं देवागमनम् ॥११७|| एकागाराचौरे ।६४११८॥ अस्मात् तदस्य प्रयोजनमिति विषये चौरेऽर्थे 'इकण्' स्यात् । ऐकागारिकः ॥११८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy