________________
१४८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
___ कालात् परिजय्य-लभ्य-कार्य-सुकरे ।६।४।१०४॥ कालविशेषाहान्तात् परिजय्याऽऽदावर्ये 'इकण्' स्यात् । मासिको व्याधिः, पटः, चान्द्रायणं, प्रासादो वा ।।१०४।।
निवृत्ते ।६।४।१०५॥ कालार्थाद्वान्ताद् निर्वृतेऽर्थे 'इकण्' स्यात् । आह्निकम् ।।१०५॥
तं भावि-भूते ।६।४।१०६॥ तमिति- द्वितीयान्तात् कालार्याद् भाविनि भूते चार्थे 'इकण्' स्यात् । मासिक उत्सवः ॥१०६॥
तस्मै भृता-ऽधीष्टे च ।६।४।१०७॥ तस्मै इति- चतुर्दान्तात् कालार्थाद् मृतेऽधीटे चार्थे 'इकण्' स्यात् । मासिकः, कर्मकरः, उपाध्यायो वा ॥१०७॥
। षण्मासादवयसि प्येकौ ।६।४।१०८॥ अस्मात् कालार्थात् तेन निवृत्ते, तं भाविनि भूते, तस्मै भृताऽधीरे चेति विषये ‘ण्य इकश्च' स्याद्, अवयसि गम्यमाने । पाण्मास्यः, षण्मासिकः ॥
समाया ईनः ।।१०९॥ अस्मात् तेन निवृत्ते इत्यादिपचकविषये 'ईनः' स्यात् । समीनः ।।१०९॥
राज्यहः-संवत्सराब द्विगोर्वा ६।४११०॥ राज्याधन्तात् समान्ताच दिगोस्तेन निवृत इत्यादिपञ्चकविषये 'ईनो वा स्यात् । द्विरात्रीणः, रात्रिका यहीनः, व्यक्षिकः; द्विसंवत्सरीणः, द्विसांवत्सरिकः; द्विसमीनः, समिकः ॥१०॥
वर्षादच वा ।।४19११॥ कालवाविवर्षान्ताद् द्विगोस्तेन निस्ते इत्यादिपञ्चकविषये 'ईनोऽश वा स्यात् ।