SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १४७ एभ्यस्तस्मै इति - चतुर्थ्यन्तेभ्यः शक्तेऽर्थे 'इकण्' स्यात् । यौगिकः, सान्तापिकः ||१४|| योग- कर्मभ्यां योकञौ |६|४|१५|| आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथासंख्यं 'योकजी' स्याताम् । योग्यः, कार्मुकम् ॥९५॥ यज्ञानां दक्षिणायाम् | ६ | ४|९६ ॥ एभ्यः षष्ठ्यन्तेभ्यो दक्षिणायामर्थे 'इकण्' स्यात् । आग्निष्टोमिकी ॥ ९६ ॥ तेषु देये |६|४|१७|| यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देयेऽर्थे 'इकण्' स्यात् । वाजपेयिकं भक्तम् ॥९७॥ काले कार्ये च भववत् |६|४|१८|| कालार्थात् सप्तम्यन्ताद् देये कार्ये चार्थे 'भवे इव प्रत्ययाः' स्युः । यथा वर्षासु भवं वार्षिकम्, तथा कार्यं देयं च ॥ ९८ ॥ व्युष्टादिष्वण |६|४|१९|| एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चा- 'ऽण् स्यात् । वैयुष्टम्, नैत्यम् ॥ ९९|| यथाकथाचाण्णः | ६|४|१००|| अस्माद् देये कार्ये चार्थे 'ण' स्यात् । याथाकथाचम् ||१०० || तेन हस्ताद् यः | ६ |४|१०१ ॥ तेनेति - तृतीयान्ताद् हस्ताद् देये कार्ये च 'यः' स्यात् । हस्त्यम् ॥१०१॥ शोभमाने |६|४|१०२॥ टान्ताच्छोममाने 'इकण्' स्यात् । कार्णवेष्टकिकं मुखम् ॥१०२॥ कर्म-वेषाद् यः | ६|४|१०३ ॥ आभ्यां टान्ताभ्यां शोभमानेऽर्थे 'यः' स्यात् । कर्मण्यं शौर्यम्, वेष्यो नटः ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy