SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीसिटहेमचन्द्रशब्दानुशासनम् १४५ प्रस्तार-संस्थान-तदन्त-कठिनान्तेभ्यो व्यवहरति ।६।४।७९॥ प्रस्तार-संस्थानाभ्यां तदन्तेभ्यः, कठिनान्ताच्च व्यवहरत्यर्थे 'इकण' स्यात् । प्रास्तारिकः, सांस्थानिकः, कांस्यप्रस्तारिकः, गौसंस्थानिकः, वांशकठिनिकः ॥ संख्यादेवाऽऽहंदलुचः ।६।४।८०॥ अहंदर्थमभिव्याय या प्रकृतिर्वक्ष्यते तस्याः केवलायाः संख्यापूर्वायाश्च वक्ष्यमाणः प्रत्ययः' स्यादिति ज्ञेयम्, न चेत् सा लुगन्ता । चान्द्रायणिकः, वैचन्द्रायणिकः । अलुच इति किम् ? द्विशूर्पण क्रीतेन क्रीतं द्विशौर्पिकम् ॥८॥ गोदानादीनां ब्रह्मचर्ये ।६।४।८१॥ एभ्यः षड्यन्तेभ्यो ब्रह्मचर्येऽर्थे 'इकण् स्यात् । गौदानिकम, आदित्यव्रतिकम् ॥ चन्द्रायणं च चरति ।६।४।८२॥ अस्माद् द्वितीयान्ताद् गोदानादेश्च चरत्यर्ये 'इकण्' स्यात् । चान्द्रायणिकः, गौदानिकः ॥८२॥ देवव्रतादीन् डिन् ।६।४।८३॥ एभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे "डिन्' स्यात् । देवव्रती, महाव्रती ॥ डकचाष्टाचत्वारिंशतं वर्षाणाम् ।६।४।८४॥ वर्षाणामष्टाचत्वारिंशतो द्वितीयान्ताधरत्यर्थे 'डको डिन् च' स्यात् । अष्टाचत्वारिंशकः, अधाचत्वारिंशी ॥४४॥ चातुर्मास्यं तौ यलुक च ६४८५॥ अस्माद् द्वितीयान्तात् चरत्यर्थे 'डक-डिनौ' स्याताम्, 'यलुक् च । चातुर्मासकः, चातुर्मासी ॥५॥ क्रोश-योजनपूर्वाच्छताद् योजनाचाऽभिगमाहे ।६।४।८६॥ क्रोशपूर्वाद् योजनपूर्वाञ्च, शताद् योजनाञ्च पञ्चम्यन्तादभिगमाहेऽर्थे 'इकण'
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy