________________
१४४ 3E
श्रीसिद्भहेमचन्द्रशब्दानुशासनम्
श्राणा-मांसौदनादिको वा ।।४७१॥ आभ्यां तदस्मै नियुक्तं दीयते इति विषये 'इकः' प्रत्ययो वा' स्यात् । श्राणिका, श्राणिकी । मांसौदनिका, मांसौदनिकी ॥७१॥
भक्तौदनाद्वाऽणिकट् ।६।४७२॥ आभ्यां यथासंख्य-'मण-इकटौ वा' स्याताम्, तदस्मै नियुक्तं दीयते इति विषये । भाक्तः, ओदनिकी; भाक्तिकः, औदनिकः ॥७२॥
नवयज्ञादयोऽस्मिन् वर्तन्ते ।६।४७३॥ एभ्यः प्रथमान्तेभ्यो वर्तन्ते इत्युपाधिभ्योऽस्मिन्निति- सप्तम्यर्थे 'इकण्' स्यात् । नावयज्ञिकः, पाकयज्ञिकः ।।७३॥
तत्र नियुक्ते ।६।४७४॥ तत्रेति- सप्तम्यन्ताद् नियुक्तेऽर्थे 'इंकण्' स्यात् । शौल्कशालिकः ॥७४।।
अगारान्तादिकः ।।४७५॥ अस्मात् तत्र नियुक्ते 'इकः' स्यात् । देवागारिकः ॥७५॥
अदेश-कालादध्यायिनि ।६४७६॥ अध्ययनस्य यौ प्रतिषिद्धौ देश-कालौ तदर्थात् सप्तम्यन्तादध्यायिन्यर्थे 'इकण्' स्यात् । आशुचिकः, सान्ध्यिकः ॥७६॥
निकटादिषु वसति ।६।४७७॥ एभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे 'इकण्' स्यात् । नैकटिकः, आरण्यिको भिक्षुः, वाक्षमूलिकः ॥७७॥
सतीर्थ: १६४७८॥ समानतीर्थात् तत्र वसत्यर्थे 'यो' निपात्यते, समानस्य च 'सभावः' । सतीर्थ्यः ||७८॥