SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् परश्वधाद्वाऽणु | ६ |४१६३ ॥ अस्मात् तदस्य प्रहरणमिति विषये - ' ऽण् वा स्यात् । पारश्वधः पार श्वधिकः ||६३॥ १४३ शक्ति-यष्टेष्टीक | ६|४|६४ ॥ आभ्यां तदस्य प्रहरणमिति विषये 'टीक' स्यात् । शाक्तीकी, याष्टीकी ||६४|| वेष्ट्यादिभ्यः | ६ |४| ६५ ॥ एभ्यस्तदस्य प्रहरणमित्यर्थे 'टीकण् वा' स्यात् । ऐष्टीकी, ऐष्टिकी ऐषीकः, ऐषिकः ||६५|| नास्तिका-ऽऽस्तिक- दैष्टिकम् |६|४|६६ ॥ एते तदस्येत्यर्थे 'इकणन्ता' निपात्यन्ते । नास्तिकः, आस्तिकः, दैष्टिकः ॥ ६६ ॥ वृत्तोऽपपाठोऽनुयोगे | ६ |४| ६७ ॥ प्रथमान्तात् षष्ठ्यर्थे 'इकण्' स्यात् तच्चेदनुयोगविषये वृत्तोऽपपाठः । ऐकान्यिकः ॥६७॥ बहुस्वरपूर्वादिकः |६|४|६८॥ बहुस्वरं पूर्वपदं यस्य तस्मात् प्रथमान्तात् षष्ठ्यर्थे 'इक:' स्यात्, तच्चेत् परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ||६८|| भक्ष्यं हितमस्मै | ६ | ४ | ६९ ॥ प्रथमान्ताद् अस्मै इति - चतुर्थ्यर्थे 'इकण्' स्यात्, तच्चेत् भक्ष्यं हितम् । आपूपिकः ॥ ६९ ॥ नियुक्तं दीयते |६|४|७० ॥ प्रथमान्तात् चतुर्थ्यर्थे 'इकण् स्यात्, तचेत् नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥७०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy