SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४० १४० - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् दशैकादशादिकश्च ।६।४॥३६॥ अस्माद् द्वितीयान्तानिन्ये गृह्णति 'इक इकट् च' स्यात् । दशैकादशिका, दशैकादशिकी ॥३६॥ अर्थ-पद-पदोत्तर-ललाम-प्रतिकण्ठात् ६॥४॥३७॥ अर्थात्, पदात, पदशब्द उत्तरपदं यस्य तस्मात, ललाम-प्रतिकण्ठाभ्यां च द्वितीयान्ताभ्यां गृह्णति 'इकण' स्यात् । आर्थिकः, पादिकः, पौर्वपदिकः; लालामिकः, प्रातिकण्ठिकः ॥३७।। परदारादिभ्यो गच्छति ६४॥३८॥ एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे 'इकण' स्यात् । पारदारिकः, गौरुदारिकः ॥३८॥ प्रतिपथादिकश्च ।६।४॥३९॥ अस्माद् द्वितीयान्ताद् गच्छति-'इक इकण च' स्यात् । प्रतिपथिकः, प्रातिपथिकः ॥३९॥ मायोत्तरपद-पदव्याक्रन्दाद् धावति ॥४॥४०॥ माय उत्तरपदं यस्य तस्मात, पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां च धावत्यर्थे 'इकण्' स्यात् । दाण्डमाथिकः, पादविकः, आक्रन्दिकः ॥४०॥ पश्चात्यनुपदात् ।६।४॥४१॥ पश्चादयदनुपदाद् द्वितीयान्ताद् धावति 'इकण' स्यात् । आनुपदिकः ॥४१॥ सुस्नातादिभ्यः पृछति ॥२॥ एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे 'इकण् स्यात् । सौस्नातिकः, सौखरात्रिकः ।। प्रभूतादिभ्यो ब्रुवति ॥४३॥ एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे 'इकण्' स्यात् । प्राभूतिकः, पार्याप्तिकः ॥४३॥ माशद इत्यादिभ्यः ॥४॥४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy