SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १३१ वाह्य-पथ्युपकरणे ।६।३।१७९॥ वाहनादुक्तः प्रत्ययो वाह्यादावेव स्यात् । आश्वो रथः पन्या वा, आश्वं पल्ययनम्, आश्वी कशा । अन्यत्र तु वाक्यमेव, अश्वानां घासः ।।१७९॥ वहेस्तुरिश्चादिः ।६।३।१८०॥ वहेर्यस्तुशब्दस्तदन्तात् तस्येदमर्ये-'ऽञ्' स्यात्, ‘तुरादिरिश्च' । सांवहित्रम् ।।१८०॥ तेन प्रोक्ते १६३१८१॥ तेनेति- टान्तात् प्रोक्ते 'यथाविहितं प्रत्ययाः' स्युः । भाद्रबाहवं शास्त्रम्, पाणिनीयम्, बार्हस्पत्यम् ॥१८१॥ मौदादिभ्यः ।६।३।१८२॥ एभ्यस्तेन प्रोक्ते 'यथाविहितमण्' स्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः, पैष्पलादाः ॥१८॥ कादिभ्यो वेदे लुप् ।६।३।१८३॥ एभ्यः प्रोक्ते वेदे 'प्रत्ययस्य लुप् स्यात् । कठाः, चरकाः ॥१८३॥ तित्तिरि-वरतन्त-खण्डिकोखादीयण ।६३१८४॥ एभ्यस्तेन प्रोक्ते वेदे 'ईयण' स्यात् । तैतिरीयाः, वारतन्तवीयाः, खाण्डिकीयाः, औखीयाः ॥१८॥ छगलिनो यिन् ।।३।१८५॥ तेन प्रोक्ते वेदे 'णेयिन्' स्यात् । छागलेयिनः ॥१८५॥ शौनकादिभ्यो णिन् ।६।३।१८६॥ तेन प्रोक्ते वेदे "णिन्' स्यात् । शौनकिनः, शाहरविणः ॥१८॥ पुराणे कल्पे ।६।३।१८७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy