SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् टान्तात् प्रोक्ते पुराणे कल्पे 'णिन्' स्यात् । पैङ्गी कल्पः ।।१८७॥ काश्यप-कौशिकाद् वेदवच ।६।३.१८८॥ आभ्यां तेन प्रोक्ते पुराणे कल्पे 'णिन्' स्यात, "वेदवच्च कार्यमस्मिन्' । काश्यपिनः, कौशिकिनः, काश्यपको धर्मः ॥१८॥ शिलालि-पाराशर्यानट-भिक्षुसूत्रे ६३१८९॥ आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च 'णिन्' स्यात्, 'वेदवच्च कार्यमस्मिन् । शैलालिनो नटाः, पाराशरिणो भिक्षवः ।।१८९॥ कृशाश्व-कर्मन्दादिन् ।६।३।१९०॥ आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च 'इन्' स्यात, 'वेदवच्च कार्यमस्मिन्' । कृशाश्विनो नटाः, कर्मन्दिनो भिक्षवः ॥१९०॥ उपज्ञाते ।६।३.१९१॥ प्रागुपदेशाद् विना ज्ञाते टान्ताद् 'यथाविहितं प्रत्ययः' स्यात् । पाणिनीयं । शास्त्रम् ॥१९॥ कृते ।।३।१९२॥ टान्तात् कृतेऽर्थे 'यथाविहितं प्रत्ययाः' स्युः । शैवो ग्रन्थः, सिद्धसेनीयः स्तवः ॥१९२॥ नाम्नि मक्षिकादिभ्यः ।६।३.१९३॥ एभ्यष्टान्तेभ्यो 'यथाविहितं कृते प्रत्ययः' स्यात् । माक्षिकं मधु, सारघम् ॥१९३॥ कुलालादेरकञ् ।६।३।१९४॥ एभ्यस्तेन कृते-'उकञ्' स्यात्, नाम्नि । कौलालकं घटादिभाण्डम्, वारुटकं शूर्पपिटकादि ॥१९४॥ सर्वचर्मण ईनेनौ ।६।३।१९५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy