________________
१३०
श्रीसिद्धहेमचन्द्रशन्दानुशासनम् एभ्यो गोत्राऽर्थेभ्यस्तस्येदमर्थे 'ईयः' स्यात् । वितिकीयाः शिष्याः, गौरग्रीवीयं शकटम् ॥१७०॥
कौपिजल-हास्तिपदादण् ।६।३।१७१॥ आभ्यां गोत्राभ्यां तस्येदमित्यर्थे-'ऽण्' स्यात् । कौपिजलाः शिष्याः, हास्तिपदाः ॥१७॥
सह-घोषा-5-लक्षणेऽञ्-यजित्रः ।६।३।१७२॥ एतदन्ताद् गोत्रार्थात् तस्येदमर्थे सजादा-'वण्' स्यात् । बैदः सङ्घादिः, बैदं लक्षणम्, एवं- गार्गः, गार्गम्, दाक्षः, दाक्षम् ॥१७२॥
शाकलादकञ् च ।६।३।१७३॥ अस्मात् तस्येदमर्थे सहादा-'वकञ् अण् च' स्यात् । शाकलकः, शाकलः सादिः, शाकलकम्, शाकलं लक्षणम् ॥१७३॥
गृहेऽग्नीधो रण घश्च ।६।३१७४।। अग्नीधस्तस्येदमर्थे गृहे 'रण' स्यात्, धश्च । आग्नीध्रम् ।।१७४॥
रथात् साऽऽदेश्च वोदने ।६।३।१७५॥ रथात् केपलात् सपूर्वाच्च तस्येदमर्थे रथस्य वोटरि अङ्गे एव च प्रत्ययः स्यात् । रथ्योऽश्वः, रथ्यं चक्रम, द्विरथोऽश्वः, आश्वरथं चक्रम् ।।१७५।।
यः ।।३.१७६॥ रथात् केवलात् सादेश्च तस्येदमर्थे यः स्यात् । रथ्यः, द्विरथ्यः ॥१७६।।
पत्रपूर्वादऽञ् ।६।३।१७७॥ वाहनपूर्वाद् रथात् तस्येदमर्थे-'ऽञ्' स्यात् । आश्वरयं चक्रम् ॥१७७॥
वाहनात् ।६।३।१७८॥ वाहनात् तस्येदमर्ये-'ऽञ्' स्यात् । औष्ट्रो रथः, हास्तः ।।१७८॥