SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२९ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् समिध आधाने टेन्यण ।६।३।१६२॥ समिधस्तस्येदमाधानमित्यर्थे 'टेन्यण' स्यात् । सामिधेन्यो मन्त्रः ॥१६२॥ विवाहे द्वन्द्वादकल् ।६।३।१६३॥ द्वन्द्वात् तस्येदमर्ये विवाहे-'ऽकर' स्यात् । अत्रिभरद्वाजिका ॥१६३॥ अदेवासुरादिभ्यो वैरे ।६।३।१६४॥ देवासुरादिवर्जाद् द्वन्द्वात् तस्येदमर्ये वैरे 'अकल्' स्यात् । बाभ्रवशालडायनिका | अदेवादीति किम् ? दैवाऽसुरम्, राक्षोऽसुरम् ॥१६४।। नटान्नृत्ते ज्यः ।६।३।१६५॥ नटात् तस्येदमर्थे नृत्ते 'ज्यः' स्यात् । नाट्यम् ॥१६५।। छन्दोगौक्त्थिक-याज्ञिक-बचाच धर्मा-ऽऽम्नाय-संघे ६३।१६६॥ एभ्यो नटाच्च तस्येदमर्थे धर्मादी 'ज्यः' स्यात् । छान्दोग्यं धर्मादि, औविस्थक्यम्, याज्ञिक्यम्, बावृच्यम्, नाट्यम् ॥१६६॥ आयर्वणिकादणिकलक च ।६।३।१६७॥ अस्मात् तस्येदमर्थे धर्मादौ 'अण् स्यात्, 'इकलुक् च । आथर्वणः ।। चरणादकञ् ।६।३।१६८॥ चरणः-कठादिः, तदर्यात् तस्येदमर्थे धर्मादा-'वकम् स्यात् । काठको धर्मादिः, चारककः ॥१६॥ गोत्राददण्डमाणव- शिष्ये ।६।३।१६९॥ गोत्रार्यात् तस्येदमर्ये दण्डमाणव-शिष्यवर्जे-'ऽकम्' स्यात् । औपगवकम् । अदण्डेत्यादीति किम् ? काण्वा दण्डमाणवाः शिष्या वा ॥१६९॥ रेवतिकादेरीयः ।६।३।१७०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy