SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् मातृकम् ||१५२॥ आयस्थानात् ।६।३।१५३॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदर्थात् तत आगते 'इकण्' स्यात् । आतरिकम् ।।१५३॥ शुण्डिकादेरण् ।६।३।१५४॥ एभ्यस्तत आगते-'ऽण्' स्यात् । शौण्डिकम्, औदपानम् ॥१५४॥ गोत्रादयत् ।६।३।१५५॥ गोत्रार्थात् तत आगते-'5) इव प्रत्ययः' स्यात् । बैदम्, औपगवकम् ॥ नृ-हेतुभ्यो रूप्य-मयटौ वा ।६।३।१५६॥ पुमर्थाद् हेत्वाच तत आगते 'एतौ वा' स्याताम् । चैत्ररूप्यम्, चैत्रमयम्, चैत्रीयम्; समरूप्यम्, सममयम्, समीयम् ॥१५६।। प्रभवति ।६।३१५७॥ पञ्चम्यन्तात् प्रागुपलभ्ये 'यथाविहितं प्रत्ययाः' स्युः । हैमवती गङ्गा ॥१५७॥ वैडूर्यः ।६३१५८॥ विडूरात् ततः प्रभवति 'ज्यः' स्यात् । वैडूर्यो मणिः ॥१५॥ त्यदादेर्मयट् ।६।३।१५९॥ एभ्यस्ततः प्रभवति 'मयट्' स्यात् । तन्मयम्, भवन्मयी ॥१५९।। तस्येदम् ।६।३।१६०॥ तस्येति- षष्ट्यन्ताद् इदमित्यर्थे 'यथाविहितं प्रत्ययाः' स्युः । मायुरम्, दैत्यम्, कालेयम्, नादेयम्, पारीणः, मानवीयः ॥१६०॥ हल-सीरादिकण् ।६।३।१६१॥ आभ्यां तस्येदमर्थे 'इकण् स्यात् । हालिकम्, सैरिकम् ॥१६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy