________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१२७
ऋषेरध्याये ।।३.१४५॥ ऋष्यर्थाद् ग्रन्थवृत्तेस्तस्य व्याख्याने तत्र भवे चाऽध्याये 'इकण्' स्यात् । वाशिष्ठिकोऽध्यायः । अध्याय इति किम् ? वाशिष्ठी ऋक् ।।१४५||
पुरोडाश-पौरोडाशादिकेकटौ ।६।३।१४६॥ आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्र भवे 'इक इकट् च' स्यात् । पुरोडाशिका, पुरोडाशिकी; पौरोडाशिका, पौरोडाशिकी ।।१४६।।
छन्दसो यः ।६।३१४७॥ अस्माद् ग्रन्थार्थात् तस्य व्याख्याने तत्र भवे च 'यः' स्यात् । छन्दस्यः ।।१४७।।
शिक्षादेवाण ।६।३.१४८॥ एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे चा-'ऽण्' स्यात् । शैक्षः, आर्गयनः, छान्दसः ।६।३।१४८||
तत आगते ।६।३।१४९॥ तत इति पञ्चम्यन्ताद् आगतेऽर्थे 'यथाविहितमण-ऐयणादयः' स्युः । सौजः, गव्यः, नादेयः, ग्राम्यः ॥१४९।।
विद्या-योनिसम्बन्धादक ।।३।१५०॥ विद्या-योनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादाऽऽगतेऽर्थे-'ऽकञ्' स्यात् । आचार्यकम्, पैतामहकम् ॥१५०||
पितुर्यो वा ।६।३।१५१॥ पितुर्योनिसम्बन्धाऽर्थात् पञ्चम्यन्तादागते 'यो वा' स्यात् । पित्र्यम्, पैतृकम् ।।१५१॥
ऋत इकण् ।६।३।१५२॥ ऋदन्ताद् विद्या-योनिसम्बन्धार्थात् तत आगते 'इकण्' स्यात् । हौतृकम्,