________________
१२६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
-
पर्यनोग्रामात् ।६।३॥१३॥ आभ्यां परो यो ग्रामस्तदन्तादव्ययीभावाद् भवे 'इकण्' स्यात् । पारिग्रामिकः, आनुग्रामिकः ॥१३८||
___उपान्जानु-नीवि-कर्णात् प्रायेण ।६।३।१३९॥ उपाद् ये जान्वादयस्तदन्तादव्ययीभावा-'दिकण' स्यात्, प्रायेण तत्र भवे । औपजानुकः सेवकः, औपनीविकं ग्रीवादाम, औपकर्णिकः सूचकः ।।१३९॥
रूढावन्तःपुरादिकः ।६।३।१४०॥ अस्मात् तत्र भवे 'इकः' स्यात्, रूढी गम्यायाम् । अन्तःपुरिका । रूढाविति किम् ? आन्तःपुरः ॥१४०॥
कर्ण-ललाटात् कल ।६।३१४१॥ आभ्यां तत्र भवे 'कल्' स्यात्, तदन्तस्य रूढी । कर्णिका- कर्णाभरणम्, ललाटिका- ललाटमण्डनम् ।।१४१॥
तस्य व्याख्याने च ग्रन्यात् ।।३।१४२॥ तस्येति- षड्यन्ताद् व्याख्यानेऽर्थे, सप्तम्यन्ताच भवे ग्रन्यार्थाद् 'यथाविहितं प्रत्ययः' स्यात् । कार्तम्, प्रातिपदिकीयं व्याख्यानं, भवं वा ॥१४२॥
प्रायो बहुस्वरादिकम् ।६।३१४३॥ बहुस्वराद् ग्रन्थार्थात् तस्य व्याख्याने, तत्र भवे च प्राय 'इकण्' स्यात् । षात्वणत्विकम् । प्रायोग्रहणात् सांहितम् ॥१३॥
स्वर-यागेभ्यः ।।३.१४४॥ ऋच इत्येतस्माद् ऋदन्ताद् द्विस्वराद् यागार्थेभ्यश्च ग्रन्यवृत्तिभ्यस्तस्य व्याख्याने तत्र भवे चेकण् स्यात् । आर्चिकम्, चातु:तृकम, आङ्गिकम्, राजसूयिकम् ॥१४॥