SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १२५ ईन-यौ चाशब्दे ।६।३।१२९॥ वर्गान्तात् सप्तम्यन्ताद् भवे ‘एतावीयश्च' स्युः, न तु शब्दे । भरतवर्गीणः, भरतवर्यः, भरतवर्गीयः । शब्दे तु कवर्गीयः ॥१२९॥ दृति-कुक्षि-कलशि-वस्त्यहेरेयण ।६।३।१३०॥ एभ्यः सप्तम्यन्तेभ्यो भवे 'एयण' स्यात् । दार्तेयं जलम्, कौक्षेयो व्याधिः, कालशेयं तक्रम्, वास्तेयं पुरीषम्, आहेयं विषम् ॥१३०॥ आस्तेयम् ।६३१३१॥ अस्तेर्धन-विद्यमानार्थात् तत्र भवे 'एयण' स्यात्, असृजो वा 'अस्त्यादेशश्च' । आस्तेयम् ॥१३१॥ ग्रीवातोऽण च ।६।३।१३२॥ अतो भवे-'ऽणेयणी' स्याताम् । अवम्, ग्रैवेयम् ॥१३२।। चतुर्मासानाम्नि ।६।३।१३३॥ अस्मात् तत्र भवे-'ऽण' स्यात्, नाम्नि । चातुर्मासी- आषायादिपौर्णमासी ॥१३३॥ यज्ञे ज्यः ।६।३।१३४॥ चतुर्मासात् तत्र भवे यज्ञे 'ज्यः' स्यात् । चातुर्मास्या यज्ञाः ॥१३४॥ गम्भीर-पञ्चजन-बहिर्देवात् ।६।३११३५॥ एभ्यस्तत्र भवे 'ज्यः' स्यात् । गाम्भीर्यः, पाञ्चजन्यः, बाह्यः, दैव्यः ॥१३५॥ परिमुखादेरव्ययीभावात् ।६।३।१३६॥ अस्मात् तत्र भवे 'ज्यः' स्यात् । पारिमुख्यः, पारिहनव्यः ॥१३६।। अन्तःपूर्वादिकण् ।६।३।१३७॥ अन्तःपूर्वपदादव्ययीभावात् तत्र भवे 'इकण्' स्यात् । आन्तरगारिकः ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy