SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सप्तम्यन्तात् कालार्थाद् व्याहरति मृगेऽर्थे 'ययाविहितं प्रत्ययः' स्यात् । नैशिको नैशो वा शृगालः, प्रादोषिकः, प्रादोषो वा । मृग इति किम् ? वसन्ते व्याहरति कोकिलः ||१२१॥ जयिनि च ।।३।१२२॥ सप्तम्यन्तात् कालार्थाज्जयिन्यर्ये 'यथाविहितं प्रत्ययः' स्यात् । निशाभवमध्ययनं निशा, तत्र जयी नैशिकः, नैशः, प्रादोषिकः, प्रादोषः, वार्षिकः ॥१२२॥ भवे ।६।३।१२३॥ सप्तम्यन्ताद् भवेऽर्थे 'यथाविहितमणेयणादयः' स्युः । सौनः, औत्सः, नादेयः, ग्राम्यः ॥१२३॥ दिगादिदेहांशाद् यः ।६।३।१२४॥ दिगादेर्दैहावयवाच्च सप्तम्यन्ताद् भवे 'यः' स्यात् । दिश्यः, अपसव्यः, मूर्धन्यः ॥१२४॥ नाम्न्युदकात् ।६।३।१२५॥ उदकात् सप्तम्यन्ताद् भवेऽर्थे 'यो' नाम्नि स्यात् । उदक्या रजस्वला ॥ मध्याद् दिनण-णेया मोऽन्तश्च ।६।३।१२६॥ मध्यात् सप्तम्यन्ताद् भवे ‘एते' स्युः, तद्योगे च 'मोऽन्तः' । माध्यन्दिनाः, माध्यमः, मध्यमीयः ॥१२६॥ जिह्वामूला-ऽङ्गुलेधेयः ।६।३।१२७॥ आभ्यां सप्तम्यन्ताभ्यां मध्याच भवे 'ईयः' स्यात् । जिहामूलीयः, अशलीयः, मध्यीयः ॥१२७॥ वर्गान्तात् ।६।३।१२८॥ अस्मात् सप्तम्यन्ताद् भवे 'ईयः' स्यात् । कवर्गीयो वर्णः ॥१२८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy