________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१२३ मासिकमृणम् ।।११३॥ ___ कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः ।६।३।११४॥ एभ्यः सप्तम्यन्तेभ्यो देये ऋणे-'5कः' स्यात् । कलापकम्, अश्वत्थकम, यवबुसकम्, उमाव्यासकम्, ऐषमकमृणम् ।।११४॥
ग्रीष्मा-ऽवरसमादकञ् ।।३।११५॥ आभ्यां कालाभ्यां सप्तम्यन्ताभ्यां देये ऋणे-'ऽकञ्' स्यात् । श्रेष्मकम्, आवरसमकमृणम् ॥११५॥
संवत्सरा -5ऽग्रहायण्या इकण च ।६।३।११६॥ आभ्यां सप्तम्यन्ताभ्यां देये ऋणे 'इकण अकञ् च' स्यात् । सांवत्सरिकम्, सांवत्सरकं फलं पर्व वा, आग्रहायणिकम, आग्रहायणकम् ।।११६॥
__साधु-पुष्यत्-पच्यमाने ।६।३।११७॥ सप्तम्यन्तात् कालविशेषार्थाद् एषु 'यथाविहितं प्रत्ययाः' स्युः । हैमनं, हैमन्तमनुलेपनम्; वासन्त्यः कुन्दलताः, शारदाः शालयः ।।११७॥
उपते ।६।३११८॥ सप्तम्यन्तात् कालार्थादुप्तेऽर्थे 'यथाविहितं प्रत्ययाः' स्युः । शारदा यवाः, हैमनाः ॥११॥
आश्वयुज्या अकञ् ।६।३।११९॥ अस्मात् सप्तम्यन्तादुप्तेऽथे-'ऽकञ्' स्यात् । आश्वयुजका माषाः ।।११९॥
ग्रीष्म-वसन्ताद् वा ।६।३।१२०॥ आभ्यां सप्तम्यन्ताम्यामुप्तेऽये-'ऽकञ् वा स्यात् । गृष्मकम्, गैष्मं सस्यम् । वासन्तकम्, वासन्तम् ॥१२०॥
व्याहरति मृगे ।६।३१२१॥