________________
१२२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अस्मात् सप्तम्यन्ताज्जाते 'टो' नाम्नि स्यात् । फल्गुनः ||१०६|| बहुला - ऽनुराधा - पुष्यार्थ- पुनर्वसु-हस्त-विशाखा-स्वातेलुप् |६|३|१०७॥
एभ्यः सप्तम्यन्तेभ्यः परस्य 'भाऽणो जातेऽर्थे लुप्' स्यात्, नाम्नि । बहुलः, अनुराधः पुष्यः, पुनर्वसुः, हस्तः, विशाखः, स्वातिः शिशुः ||१०७ ||
"
चित्रा - रेवती - रोहिण्याः स्त्रियाम् | ६ | ३|१०८ ॥
एभ्यः सप्तम्यन्तेभ्यो 'भाऽणो जाते स्त्रियां नाम्नि लुप्' स्यात् । चित्रा स्त्री, रेवती, रोहिणी ॥१०८॥
बहुलमन्येभ्यः | ६ | ३|१०९॥
श्रविष्ठादिभ्योऽन्येभ्यो भाऽर्थेभ्यः सप्तम्यन्तेभ्यो 'भाऽणो जातेऽर्थे लुब् बहुलं नाम्नि' स्यात् ।अभिजित्, आभिजितः; अश्वयुक्, आश्वयुजः । क्वचिन्नित्यम्अश्विनः । क्वचित्र स्यात् - माघः ॥१०९ ॥
स्थानान्त - गोशाल - खरशालात् |६|३|११०॥
एभ्यः सप्तम्यन्तेभ्यः परस्य 'जाते प्रत्ययस्य नाम्नि लुप् स्यात् । गोस्थानः, गोशालः, खरशालः शिशुः ॥११०॥
वत्सशालाद्वा |६|३|१११॥
अस्मात् सप्तम्यन्ताज्जाते 'प्रत्ययस्य नाम्नि लुब् वा' स्यात् । वत्सशालः, वात्सशालः ॥ १११ ॥
सोदर्य - समानोदर्यो | ६ |३|११२ ॥
एती जातेऽर्थे 'यान्ती' निपात्येते । सोदर्यः समानोदर्यो भ्राता ॥ ११२ ॥ काला देये ऋणे | ६ |३|११३॥
सप्तम्यन्तात् कालार्थाद् देये ऋणेऽर्थे 'यथाविहितं प्रत्ययः स्यात् ।