SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १२१ नादेयः राष्ट्रियः ॥ ९८॥ प्रावृष इकः | ६ | ३ |९९॥ अस्मात् सप्तम्यन्ताज्जाते 'इक: ' स्यात् । प्रावृषिकः ॥ ९९|| नाम्नि शरदोऽकञ् | ६ |३|१०० ॥ शरदः सप्तम्यन्ताज्जाते-‘ऽकञ्' स्यात्, नाम्नि । शारदका दर्भाः । नाम्नीति किम् ? शारदं सस्यम् ॥१००॥ सिन्ध्वपकरात् का-sit | ६ | ३|१०१ ॥ आभ्यां सप्तम्यन्ताभ्यां जाते 'कोऽण् च' स्यात्, नाम्नि । सिन्धुकः, सैन्धवः, अपकरकः, आपकरः ॥१०१॥ पूर्वाह्णाऽपराह्णाऽऽर्द्रा-मूल- प्रदोषा - ऽवस्करादकः ।६।३।१०२॥ एभ्यः सप्तम्यन्तेभ्यो जाते- 'Sको' नाम्नि स्यात् । पूर्वाह्णकः, अपराह्णकः, आर्द्रकः, मूलकः, प्रदोषकः, अवस्करकः ||१०२ ॥ पथः पन्थ च |६|३|१०३॥ पथः सप्तम्यन्ताज्जाते- 'Sको' नाम्नि स्यात्, तद्योगे 'पन्यः' | पन्थकः || अश्च वाऽमावास्यायाः | ६|३|१०४ | अस्मात् सप्तम्यन्ताज्जाते 'अः, अकश्च नाम्नि वा' स्यात् । अमावास्यः, अमावास्यकः, आमावास्यः ||१०४ || श्रविष्ठा - ऽषाढादीयण् च | ६ | ३|१०५ ॥ आभ्यां सप्तम्यन्ताभ्यां जाते 'ईयण् अश्व' नाम्नि स्यात् । श्राविष्ठीयः, श्रविष्ठः; आषाढीयः, अषाढः ॥ १०५॥ फल्गुन्याष्टः | ६|३|१०६ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy