SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पौषः, ग्रैष्मः सान्ध्यः, आमावास्यः ॥८९॥ संवत्सरात् फल-पर्वणोः ।६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थे-'ऽण' स्यात् । सांवत्सरं फलं पर्व वा ।। हेमन्ताद् वा, तलुक् च ।६।३।९१॥ अस्माच्छेषेऽथै-'ऽण् वा' स्यात्, तद्योगे च 'तो वा लुक्' । हैमनम्, हैमन्तम्, हैमन्तिकम् ।।९१॥ प्रावृष एण्यः ।६।३।९२॥ अस्माच्छेषेऽर्थे 'एण्यः' स्यात् । प्रावृषेण्यः ॥१२॥ स्थामा-ऽजिनान्ताल्लुपू ।६।३।९३॥ स्थामान्तादजिनान्ताच परस्य 'शैषिकस्य लुप्' स्यात् । अश्वत्थामा, सिंहाजिनः ॥१३॥ तब कृत-लब्ध-क्रीत-सम्भूते ।६।३।९४॥ तत्रेति- सप्तम्यन्तादेष्वर्थेषु 'यथायोगमणादय एयणादयश्च' स्युः । सौजः, औत्सः, बाह्यः, नादेयः, राष्ट्रियः ॥१४॥ कुशले ।६।३।९५॥ सप्तम्यन्तात् कुशलेऽर्थे 'यथाविहितमणेयणादयः' स्युः । माथुरः, नादेयः ।। पयोऽकः ।३१९६॥ सप्तम्यन्तात् पथः कुशले-'ऽकः' स्यात् । पथकः ॥९६।। कोऽश्मादेः ।६॥३॥१७॥ अस्मात् सप्तम्यन्तात् कुशले 'कः' स्यात् । अश्मकः, अशनिकः ॥९७।। जाते ६३९८॥ सप्तम्यन्ताज्जातेऽर्थे 'यथाविहितमणेयणादयः' स्युः । माथुरः, औत्सः, बाह्यः,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy