________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११९
शरदः श्राद्ध कर्मणि ६३८१1 अस्मात् पितृकार्ये शेषेऽर्थे 'इकण्' स्यात् । शारदिकं श्राद्धम् ॥८१॥
नवा रोगा-ऽऽतपे ६३८२॥ शरदो रोगे आतपे च शेषेऽर्थे 'इकण वा' स्यात् । शारदिकः, शारदो रोग आतपो वा ॥२॥
निशा-प्रदोषात् ।६।३।८३॥ आभ्यां शेषेऽर्थे 'इकण वा स्यात् । नैशिकः, नैशः; प्रादोषिकः, प्रादोषः ॥८॥
श्वसस्तादिः ६३८४॥ श्वसः कालाच्छेिषेऽर्थे 'तादिरिकण वा स्यात् । शौवस्तिकः; श्वस्त्यः ।
चिर-परत-परारेस्नः ६३८५॥ एभ्यः शेषेऽये 'लो वा स्यात् । चिरलम, परुलम्, परारिलम: चिरंतनम्, परुत्तनम्, परारितनम् ॥८५॥
पुरो नः ६३८६॥ पुराशब्दात् कालार्याच्छेषेऽर्थे 'नो वा स्यात् । पुराणम्, पुरातनम् ॥८६॥
पूर्वाहणा-ऽपराह्णात् तनट् ।६।३१८७॥ आभ्यां शेषेऽर्थे 'तनड् वा' स्यात् । पूर्वाणेतनः, अपराहेतनः; पौर्वाणिकः, आपराणिकः ॥८७॥
सायं-चिरं-प्रार्थों-प्रगे-ऽव्ययात् ।।३।८८॥ एभ्योऽव्ययाच कालाच्छेषेऽर्थे 'तनड् नित्यं स्यात् । सायंतनम्, चिरन्तनम्, प्राणैतनम्, प्रगेतनम्, दिवातनम् ॥८८||
___ भर्तु-सन्ध्यादेरण ।६।३।८९॥ भं नक्षत्रम्, तदर्याद, ऋत्वर्यात्, सन्ध्याऽऽदेश्च कालार्याळेषे-'उण्' स्यात् ।