________________
११८
११८
श्रीसिदहेमचन्द्रशब्दानुशासनम्
ग्राम-राष्ट्रांऽशादणिकणौ ।६।३।७२॥ ग्राम-राष्ट्रयोर्भागार्थादर्धात् दिक्पूर्वाच्छेषे-'ऽणिकणौ' स्याताम् । ग्रामस्य राष्ट्रस्य वा पौर्वाधः, पौर्वार्धिकः ॥७२॥
परा-ऽवरा-ऽधमोत्तमादेर्यः ।६।३।७३॥ परादिपूर्वादर्धाच्छेषेऽर्थे 'यः' स्यात् । परार्ध्वम्, अवराय॑म् अधमार्यम्, उत्तमाय॑म् ॥७३॥
अमो-ऽन्ता-ऽवो-ऽधसः ।६।३।७४॥ अन्तादेः शेषेऽथै-'ऽमः' स्यात् । अन्तमः, अवमः, अधमः ॥७४||
पश्चादायन्ता-ऽग्रादिमः ।।३७५॥ एभ्यः शेषेऽर्थे 'इमः' स्यात् । पश्चिमः, आदिमः, अन्तिमः, अग्रिमः ॥७५॥
मध्यान्मः ६३७६॥ मध्यशब्दाच्छेषेऽर्थे 'मः' स्यात् । मध्ये जातो मध्यमः ॥७६||
मध्य उत्कर्षा-उपकर्षयोरः ६३७७॥ अनयोर्मध्यार्थयोर्मध्याच्छेषेऽर्थे 'अः' स्यात् । नात्युत्कृष्ो नात्यपकृष्टो मध्यपरिमाणो मध्यो विद्वान् ॥७७॥
अध्यात्मादिभ्य इकण् ।६।३७८॥ एभ्यः शेषेऽर्थे 'इकण्' स्यात् । आध्यात्मिकम्, आधिदैविकम् ॥७८॥
समानपूर्व-लोकोत्तरपदात् ।६।३७९॥ समानशब्दपूर्वपदेभ्यो लोकशब्दोतरपदेभ्यश्च शेषेऽर्थे 'इकण्' स्यात् । सामानग्रामिकः, ऐहलौकिकः ॥७९॥
वर्षा-कालेभ्यः ।६।३८०॥ वर्षायाः कालविशेषार्याध शेषेऽर्थे 'इकण्' स्यात् । वार्षिकः, मासिकः ॥८॥