SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ११७ अस्मात् देशार्थाच्छेषे 'ईयः' स्यात्, प्रकृतेश्च 'मध्यमादेशः' । मध्यमीयः ॥६४॥ निवासाचरणेऽण ।६३॥६५॥ पृथिवीमध्यात्रिवासदेशाचरणे निवस्तरि शेषेऽये-'ऽण् स्यात, 'मध्यम' श्वास्य । माध्यमाश्चरणाः ॥६५॥ वेणकादिभ्य ईयण ॥६॥३॥६६॥ एभ्यो यथायोगं देशार्थेभ्यः शेषेऽर्थे 'ईयण' स्यात् । वैणुकीयः, वैत्रकीयः ।। वा युष्मदस्मदोऽजीनी युष्माकाऽस्माकं चास्यैकत्वे तु तवक-ममकम् ।६।३।६७॥ आभ्यां शेषेऽर्थ-'ऽजीनजी वा' स्याताम्, तद्योगे च यथासंख्यं 'युष्माकाऽस्माकी' एकार्थयोस्तु तवक-ममको' । यौष्माकी, यौष्माकीणः, आस्माकी, आस्माकीनः; युष्मदीयः, अस्मदीयः; तावकः, तावकीनः, मामकः, मामकीनः; त्वदीयः, मदीयः ॥६७॥ द्वीपादनुसमुद्रं ण्यः ।६।३।६८॥ समुद्रसमीपे यो. द्वीपः तदर्यात् शेषेऽर्थे ‘ण्यः' स्यात् । वैयो ना तद्वासो वा ॥६८॥ अर्थाद् यः ।६।३।६९॥ अर्धशब्दाच्छेथे 'यः' स्यात् । अयम् ॥६९॥ ___ सपूर्वादिकम् ।६।३७०॥ सपूर्वपदादर्धाच्छेषेऽर्थे 'इकण्' स्यात् । पौष्करर्धिकः ॥७०॥ दिक्पूर्वात् तौ ।६।३।७१॥ दिक्पूर्वपदादर्धाच्छेषेऽर्थे 'येकणौ' स्याताम् । पूर्वार्ध्यम्, पौर्वार्धिकम् ॥७१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy