________________
११६
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
काच्छकमस्य स्मितम् ॥५५॥
कोपान्त्याचाऽण् ।६।३१५६॥ कोपान्त्यात् कच्छादेव देशाच्छेषे-'ऽण्' स्यात् । आर्षिकः, काच्छ:, सैन्धवः ॥५६॥
गतॊत्तरपदादीयः ।६३।५७॥ अस्माद् देशार्थाच्छेषे 'ईयः' स्यात् । श्वाविद्गीयः ॥५७॥
चः ।६।३१५८॥ कटपूर्वपदात् प्राग्देशार्थाच्छेषे 'ईयः' स्यात् । कटग्रामीयः ॥५८॥ क-खोपान्त्य-कथा-पलद-नगर-ग्राम-ह्रदोत्त
६३५९॥ कुपान्त्यात् खुपान्त्यात् कन्थाधुत्तरपदाच देशार्थाद् दोः शेषेऽर्थे 'ईयः' स्यात् । आरीहणकीयः, कौटशिखीयः, दाक्षिकन्थीयः, दाक्षिपलदीयः, दाक्षिनगरीयः, माहकिग्रामीयः, दाक्षिहूदीयः ॥५९॥
पर्वतात् ।६।३।६०॥ अस्माद् देशार्थाच्छेषे 'ईयः' स्यात् । पर्वतीयो राजा ॥६०॥
अनरे वा ।६३।६१॥ पर्वताद् देशार्थान्नृवर्जे 'ईयो वा' स्यात् । पर्वतीयानि, पार्वतानि फलानि ॥६१॥
पर्ण-कृकणाद् भारद्वाजात् ।६।३।६२॥ आभ्यां भारद्वाजदेशार्थाभ्यां शेषे 'ईयः' स्यात् । पर्णीयः, कृकणीयः ॥६२॥
गहादिभ्यः ।।३।६३॥ एभ्यो यथासम्भवं देशार्थेभ्यः शेषे 'ईयः' स्यात् । गहीयः, अन्तस्थीयः ।।
पृथिवीमध्यान्मध्यमचास्य ।६।३।६४॥