________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
११५
समुद्राद् देशाच्छेषे-'ऽकञ्' स्यात्, नरि नावि चार्थे । सामुद्रको ना, सामुद्रिका नौः । सामुद्रमन्यत् ॥४८॥
नगरात् कुत्सा-दाक्ष्ये ।६३।४९॥ नगराद् देशार्थाच्छेषे-'ऽकञ्' स्यात, कुत्सायां दाक्ष्ये च गम्ये । चौरा हि नागरकाः, दक्षा हि नागरकाः ॥४९॥
कछा-ऽग्नि-वक्त्र-वोत्तरपदात् ।।३।५०॥ कच्छाधुत्तरपदाद् देशाच्छेषे-'उकञ्' स्यात् । भारुकच्छकः, काण्डाग्नकः, ऐन्दुवक्त्रकः, बाहुवर्तकः ॥५०॥
अरण्यात् पथि-न्यायाऽध्यायेम-नर-विहारे ।६।३।५१॥ अरण्याद् देशार्थात् पय्यादी शेषे-'उकञ् स्यात् । आरण्यकः पन्था न्यायोऽध्याय इभो नरो विहारो वा ॥५१॥
गोमये वा ॥६३॥५२॥ अरण्याद् देशाछेषे गोमयेऽर्थे-'ऽकञ् वा' स्यात् । आरण्यका गोमयाः, आरण्या वा ॥५२॥
कुरु-युगन्धराद् वा ।६।३॥५३॥ आभ्यां देशार्थाभ्यां शेषे-'उकश् वा स्यात् । कौरवकः, कौरवः, यौगन्धरकः, यौगन्धरः ॥५३॥
साल्वाद् गो-यवाग्वपत्तौ ।६।३॥५४॥ साल्वाद् देशाद् गवि यवाग्वां पत्तिवर्जे च मनुष्ये शेषेऽर्थे-'ऽकञ्' स्यात् । साल्वको गौः, साल्विका यवागूः, साल्वको ना ॥५४॥
कच्छादेर्नु-नृस्थे ।६।३।५५॥ कच्छादे देशार्यात् नरि नृस्ये च शेषेऽर्थ-'ऽक' स्यात् । काच्छको ना,