________________
११४
श्रीसिद्धहेपचन्द्रशब्दानुशासनम्
वृजि-मद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे 'कः' स्यात् । वृजिकः, मद्रकः ।।
उवर्णादिकण् ।६।३॥३९॥ उवर्णान्ताद् देशाच्छेषेऽर्थे 'इकण' स्यात् । शाबरजम्बुकः ॥३९॥
दोरेव प्राचः ६३॥४०॥ प्राग्देशार्थादुवर्णान्ताद् ‘दोरेवेकण्' स्यात् । आषाढजम्बुकः ॥४०॥
इतोऽकञ् ।६।३१४१॥ ईदन्तात् प्राग्देशार्थाद् दोः शेषे-'ऽकञ्' स्यात् । काकन्दकः ॥४१॥
रोपान्त्यात् ।६।३॥४२॥ रोपान्त्यात् प्राचो दोः शेषे-'उकञ्' स्यात् । पाटलिपुत्रकः ॥४२॥
प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात् ॥६॥३॥४३॥ प्रस्थ-पुर-वहान्तेभ्यो योपान्त्याद् धन्वार्थाच्च देशवृत्तेर्दोः शेषे-'ऽकञ्' स्यात् । मालाप्रस्थकः, नान्दीपुरकः, पैलुवहकः, साझाश्यकः, पारेधन्वकः ॥४३॥
राष्ट्रेभ्यः ।६।३।४४॥ राष्ट्राऽर्थेभ्यो दुभ्यः शेषे-'ऽकञ्' स्यात् । आभिसारकः ॥४४॥
बहुविषयेभ्यः ॥४५॥ राष्ट्रेभ्यो बहुविषयेभ्यः शेषे–'ऽकञ्' स्यात् । आङ्गकः ॥४५॥
धूमादेः ।६३।४६॥ अस्माद् देशवृत्तेः शेषे–'ऽकञ्' स्यात् । धौमकः, षाडण्डकः ॥४६॥
सौवीरेषु कूलात् ॥६॥३॥४७॥ सौवीरदेशार्थात् कूलात् शेषे-'ऽकञ्' स्यात् । कौलकः ॥४७||
समुद्रान्नृ-नावोः ॥६॥३॥४८॥