________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
११३
काशीयाः । द्विस्वरादिति किम् ? पानागाराः ॥२९॥
भवतोरिकणीयसौ ।६।३॥३०॥ भवच्छब्दाच्छेषेऽर्थे 'इकणीयसौ' स्याताम् । भावत्कम्, भवदीयम् ॥३०॥
पर-जन-राज्ञोऽकीयः ।६।३॥३१॥ एभ्यः शेषेऽर्थे-'ऽकीयः' स्यात् । परकीयः, जनकीयः, राजकीयः ॥३१॥
दोरीयः ॥६॥३॥३२॥ दुसंज्ञकाच्छेषेऽर्थे 'ईयः' स्यात् । देवदत्तीयः, तदीयः ॥३२॥
उष्णादिभ्यः कालात् ॥६॥३॥३३॥ उष्णादिपूर्वपदात् कालान्ताच्छेषेऽर्थे 'ईयः' स्यात् । उष्णकालीयम् ॥३३॥
व्यादिभ्यो णिकेकणौ ॥६३॥३४॥ एभ्यो यः कालस्तदन्ताच्छेषेऽर्थे "णिक इकण च' स्यात् । वैकालिका, वैकालिकी; आनुकालिका, आनुकालिकी ॥३४॥
काश्यादेः ६॥३॥३५॥ एभ्यो दुभ्यः शेषेऽर्थे 'णिकेकणी' स्याताम् । काशिका, काशिकी; चैदिका, चैदिकी ॥३५॥
वाहीकेषु ग्रामात् ॥६॥३॥३६॥ एषु ग्रामाद् दोः शेषेऽर्थे 'णिकेकणौ' स्याताम् । कारन्तपिका, कारन्तपिकी ॥३६॥
वोशीनरेष ३७॥ एषु ग्रामार्थाद् दोः शेषेऽर्थे 'णिकेकणी वा' स्याताम् । आह्वजालिका, आह्वजालिकी, आरजालीयः ॥३७॥
वृजि-मद्राद् देशात् कः ॥६॥३॥३८॥