________________
८४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
वेरवाचोपसर्गात् परस्य स्वनः सोऽशने भोजने द्वित्वेऽप्यट्यपि 'ए' स्यात् । विष्वणति, अवष्वणति, विषष्वाण, अवषष्वाण, व्यष्वणत्, अवाष्वणत्, व्यषिष्वणत, अवाषिष्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥४३॥
सदोऽप्रतेः परोक्षायां त्वादेः ॥२॥३॥४४॥ प्रतिवोपसर्गस्थानाम्यादेः परस्य सदः सो द्वित्वेऽप्यट्यपि 'ए' स्यात्, परोक्षायां तु द्व्युक्ती सत्याम् आदेः- पूर्वस्यैव । निषीदति, विषापद्यते, व्यषीषदत् । परोक्षायां त्वादेरेव - निषसाद | अप्रतेरिति किम् ? प्रतिसीदति ॥४४॥
स्वाश्च ।२।३।४५॥ उपसर्गस्थानाम्यादेः परस्य स्वनः सो द्वित्वेऽप्यट्यपि 'ए' स्यात्, परोक्षायां त्वादेरेव । अभिष्वजते, अभिषिष्वक्षते, प्रत्यष्वजत, परिषस्वजे ॥४५॥
परि-नि-वेः सेवः ।२।३।४६॥ पर्याद्युपसर्गस्थानाम्यादेः परस्य सेवतेः सो द्वित्वेऽप्यट्यपि 'ए' स्यात् । परिषेवते, परिषिषेवे, परिषिषेविषते, पर्यषेवत, निषेवते, विषिषेवे ॥४६।।
सय-सितस्य ।२।३॥४७॥ परि-नि-वेः परस्य संय-सितयोः सः 'ए' स्यात् । परिषयः, निषयः, विषयः; परिषितः, निषितः, विषितः ॥४७॥
असोङ-सिवू-सह-स्सटाम् ॥२॥३॥४८॥ परि-नि-विभ्यः परस्य सिवू-सहोः स्सटश्च सः '' स्यात्, न चेत् सिवूसही सो-डविषयौ स्याताम् । परिषीव्यति, निषीव्यति, विषीव्यति । परिषहते, निषहते, विषहते । परिष्करोति, विष्किरः । असोडेति किम् ? परिसोटः,मा परिसीषिवत्, मा परिसीषहत् ॥४८॥
स्तु-स्वजश्चाऽटि नवा ॥२॥३॥४९॥ परि-नि-वेः परस्य स्तु-स्वोरसोड-सिवू-सह-स्सटां च सोऽटि सति 'ष् वा'