________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
८३
ण्यन्तस्य सञ्जर्नाम्यादेः परस्य सः षणि 'ष् वा स्यात् । सिषञ्जयिषति, सिसञ्जयिषति ॥ ३८॥
उपसर्गात् सुग्- सुव-सो-स्तु - स्तुभोऽट्यप्यद्वित्वे । २।३।३९ ॥
द्व्युक्ताभावे सुनोत्यादेः स उपसर्गस्थान्नाम्यादेः परस्य 'ब्' स्यात्, अड्व्यवधानेऽपि । सुग्-अभिषुणोति, निःषुणोति, पर्यषुणोत् । सुव-अभिषुवति, पर्यषुवत् । सो- अभिष्यति, पर्यष्यत् । स्तु- अभिष्टौति, दुःष्टवम्, पर्यष्टत् । स्तुभू - अभिष्टोभते, पर्यष्टोभत । अद्वित्व इति किम् ? अभिसुसूषति ॥ ३९ ॥
स्था-सेनि - सेध - सिच- सां द्वित्वेऽपि । २।३।४०॥
उपसर्गस्थान्नाम्यादेः परेषां स्थादीनां सः 'ष्' स्यात्, द्वित्वेऽप्यव्यपि । अधिष्ठास्यति, अधितष्ठौ अत्यष्ठात् । अभिषेणयति, अभिषिषेणयिषति, अभ्यषेणयत् । प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत् । अभिषिञ्चति, अभिषिषिक्षति, अभ्यषिञ्चत् । अभिषजति, अभिषषञ्ज, अभ्यषजत् ॥४०॥ अङप्रतिस्तब्ध - निस्तब्धे स्तम्भः | २|३|४१ ॥
उपसर्गस्थान्नाम्यादेः परस्य स्तम्भस्सो द्वित्वेऽप्यव्यपि 'ब्' स्यात्, न चेत् स्तम्भिर्डे प्रतिस्तब्ध - निस्तब्धयोश्च स्यात् । विष्टम्नाति, वितष्टम्भ, प्रत्यष्टभ्नात् । डादिवर्जनं किम् ? व्यतस्तम्भत्, प्रतिस्तब्धः, निस्तब्धः ॥४१॥ अवाच्चाऽऽ श्रयोऽविदूरे | २|३|४२ ॥
अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेऽप्यव्यपि 'ष' स्यात् ङविषयश्चेत् स्तम्भिर्न स्यात् । आश्रय- आलम्बनम् । दुर्गमवष्टभ्नाति, अवतष्टम्भ, अवाष्टभ्नाद् वा । उर्ज- और्जित्यम् । अहो ! वृषलस्यावष्टम्भः । अविदूरम् - आसन्नम्, अदूरासन्नं च । अवष्टब्धा शरत्, अवष्टब्धे सेने । चोऽनुक्तसमुच्चये, तेन उपष्टम्भः, उपस्तब्धः । अङ इत्येव - अवातस्तम्भत् ॥४२॥ व्यवात् स्वनोऽशने |२| ३३४.३ ॥