________________
८२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अङ्गुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः, बर्हिष्ठः, परमेष्ठः, दिविष्ठः ॥३०॥
निर्दुस्सोः सेध-सन्धि-साम्नाम् ।२।३॥३१॥ एभ्यः परेषां सेधादीनां सः समासे 'ष' स्यात् । निःषेधः, दुःषेधः, सुषेधः; निःषन्धिः, दुःषन्धिः, सुषन्धिः, निःषाम, दुःषाम, सुषाम ॥३१॥
प्रष्ठोऽग्रगे ।।३॥३२॥ प्रात् स्थस्य सः '' स्यात् , अग्रगामिन्यर्थे । प्रष्ठोऽग्रगः ॥३२॥
भीरुष्ठानादयः ।२।३॥३३॥ एते समासे कृतषत्वाः साधवः स्युः । भीरुष्ठानम्, अडलिषङ्गः ॥३३॥
हस्वानाम्नस्ति ।२।३॥३४॥ नाम्नो विहिते तादौ प्रत्यये ह्रस्वानामिनः परस्य सः ‘ष्' स्यात् । सर्पिष्टा, वपुष्टमम् । नामिन इत्येव- तेजस्ता ॥३४॥
निसस्तपेऽनासेवायाम् ।२।३॥३५॥ निसः सस्तादौ तपतौ परे 'ए' स्यात्, पुनः पुनः करणाऽभावे । निष्टपति स्वर्णम्-सकृदग्निं स्पर्शयतीत्यर्थः । तीत्येव- निरतपत् ॥३५॥
घस्-वसः ॥२॥३॥३६॥ नाम्यादेः परस्य घस्-वसोः सः 'ष' स्यात् । जनः, उषितः ॥३६॥
णि-स्तोरेवाऽस्वद- स्विद-सहः पणि ।२।३॥३७॥ स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य षत्वभूते सनि 'ए' स्यात् । सिषेवयिषति, तुष्टूपति । स्वदादिवर्जनं किम् ? सिस्वादयिषति, सिस्वेदयिषति, सिसाहयिषति । एवेति किम् ? सुसूषति । षणीति किम् ? सिषेव । षत्वं किम् ? सुषुप्सति ॥३७॥
सजेर्वा ॥२॥३॥३८॥