________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अभिनिष्टानः | २|३|२४॥
अभि-निभ्यां स्तानः समासे कृतषत्वो निपात्यते नाम्नि । अभिनिष्टानो
वर्णः ||२४||
"
८१
गवि - युधेः स्थिरस्य | २|३|२५ ॥
आभ्यां परस्य स्थिरस्य सः समासे 'ब्' स्यात्, नाम्नि । गविष्ठिरः, युधिष्ठिरः ||२५||
एत्यकः | २|३|२६॥
कवर्जानाम्यादेः परस्य स एति परे समासे '' स्यात्, नाम्नि । हरिषेणः, श्रीषेणः । अक इति किम् ? विष्वक्सेनः ॥२६॥
भादितो वा । २।३।२७॥
नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे 'ष् वा' स्यात्, नाम्नि । रोहिणिषेणः, रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ||२७|| वि-कु-शमि परेः स्थलस्य |२|३|२८||
एभ्यः परस्य स्थलस्य सः समासे 'ब्' स्यात् । विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्ठलम् ॥२८॥
कपेर्गोत्रे | २|३|२९ ॥
कपेः परस्य स्थलस्य सः समासे 'ष' स्यात्, गोत्रे वाच्ये । कपिष्ठल ऋषिः ॥२९॥
गो-म्बा - SSम्ब - सव्या-प-द्वि-त्रि-भूम्यग्नि- शेकु - शङ्कुक्वड - मजि-पुञ्ज बर्हिः- परमे-दिवेः स्थस्य | २|३|३०॥
एभ्यः परस्य स्यस्य सः समासे '' स्यात् । गोष्ठम्, अम्बष्ठः, आम्बष्ठः, सव्यष्ठः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः शेकुष्ठः, शकुष्ठः, कुष्ठः,