________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
८५ स्यात् । पर्यचैत्, पर्यस्तौत; न्यष्टौत्, न्यस्तोत्; व्यष्टौत्, व्यस्तीत् । पर्यष्वजत्, पर्यस्वजत्; न्यष्वजत, न्यस्वजत्, व्यष्वजत्, व्यस्वजत् । पर्यषीव्यत्, पर्यसीव्यत्; न्यषीव्यत्, न्यसीव्यत: व्यषीव्यत्, व्यसीव्यत् । पर्यषहत, पर्यसहत; न्यषहत, न्यसहत, व्यषहत, व्यसहत । पर्यष्करोत्, पर्यस्करोत् । असोडसिवूसहेत्येव - पर्यसोढयत्, पर्यसीषिवत्, पर्यसीषहत् ॥४९॥
निरभ्यनोश्च स्यन्दस्याऽप्राणिनि ।२।३।५०॥ एभ्यः परि-नि-वेश्च परस्याऽप्राणिकर्तृकार्यवृत्तेः स्यन्दः सः 'ष् वा' स्यात् । निःष्यन्दते, निःस्यन्दते; अभिष्यन्दते, अभिस्यन्दते; अनुष्यन्दते, अनुस्यन्दते; परिष्यन्दते, परिस्यन्दते; निष्यन्दते, निस्यन्दते; विष्यन्दते, विस्यन्दते तैलम् । अप्राणिनीति किम् ? परिस्यन्दते मत्स्यः ॥५०॥
वेः स्कन्दोऽक्तयोः ॥२॥३॥५१॥ विपूर्वस्य स्कन्दः सः 'ष् वा स्यात्, न चेत् क्त-क्तवतू स्याताम् । विष्कन्ता, विस्कन्ता । अक्तयोरिति किम् ? विस्कन्नः, विस्कनवान् ॥५१॥
परेः ।२।३१५२॥ परेः स्कन्दः सः 'ष् वा' स्यात् । परिष्कन्ता, परिस्कन्ता, परिष्कण्णः, परिस्कनः ॥५२॥
निर्नेः स्फुर-स्फुलोः ।२।३॥५३॥ आभ्यां परयोः स्फुर-स्फुलोः सः 'ष् वा स्यात् । निःष्फुरति, निःस्फुरति, निष्फुरति, निस्फुरति; निःष्फुलति, निःस्फुलति; निष्फुलति, निस्फुलति ॥५३॥
वेः ।।३।५४॥ वेः परयोः स्फुर-स्फुलोः सः 'ए वा' स्यात् । विष्फुरति, विस्फुरति; विष्फुलति, विस्फुलति ॥५४॥