________________
-
७८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आत् परस्याऽनव्ययस्य रस्य क्रादिस्थे कखपफि 'स्' स्यात् समासैक्ये । अयस्कृत, यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्कर्णी, अयस्पात्रम् । अत इति किम् ? वाःपात्रम् । अनव्ययस्येति किम् ? स्वःकारः । समासैक्य इत्येव- उपपयःकारः ॥५॥
प्रत्यये ।।१६॥ अनव्ययस्य रस्य प्रत्ययविषये कखपफि 'स्' स्यात् । पयस्पाशम्, पयस्कल्पम्, पयस्कम् । अनव्ययस्येत्येव- स्वःपाशम् ॥६॥
रोः काम्ये ।२।३७॥ अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये 'स्' स्यात् । पयस्काम्यति । रोरिति किम्? अहःकाम्यति ॥७॥
नामिनस्तयोः षः ।।३।८॥ तयोः प्रत्ययस्थे कखपफि, रोरेव च काम्ये नामिनः परस्य रस्य 'ए' स्यात् । सर्पिष्पाशम्, धनुष्कल्पम्, धानुष्कः, सर्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव- गीx काम्यति ॥८॥
निर्बहिराविष्पाश्चतुराम् ।२।३॥९॥ निरादीनां रस्य कखपफि '' स्यात् । निष्कृतम्, दुष्कृतम्, बहिष्पीतम्, आविष्कृतम्, प्रादुष्कृतम्, चतुष्पात्रम् ॥९॥
सुचो वा ।२।३.१०॥ सुजन्तस्थस्य रस्य कखपफि 'ष् वा' स्यात् । द्विष्करोति, द्वि ४ करोति, द्विःकरोति । चतुष्फलति, चतुर फलति, चतुःफलति । कखपफीति किम् ? द्विश्वरति ॥१०॥
वेसुसोऽपेक्षायाम् ।२।३।११॥