________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
७९
इसुस्प्रत्ययान्तस्य रस्य कखपफि 'ए वा' स्यात्, स्थानि-निमित्तयोरपेक्षा चेत् । सर्पिष्करोति, सपि करोति । धनुष्खादति, धनु खादति । अपेक्षायामिति किम् ? परमसर्पि: कुण्डम् ॥११॥
नैकार्थेऽक्रिये ।२।३।१२॥ न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे- तुल्याधिकरणे पदे यत् कखपफं तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य 'न' स्यात् । सर्पि- कालकम् । यजु पीतकम् । एकार्य इति किम् ? सर्पिष्कुम्भे, सर्पिर कुम्भे । अक्रिय इति किम् ? सर्पिष्क्रियते, सर्पिर क्रियते ॥१२॥
समासेऽसमस्तस्य ।२।३।१३॥ पूर्वेणाऽसमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि 'ष' स्यात्, निमित्तनिमित्तिनौ चेदेकत्र समासे स्तः । सर्पिष्कुम्भः, धनुष्फलम् । समास इति किम् ? तिष्ठतु सर्पिः, पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पिःकुण्डम् ॥१३॥
भ्रातुष्पुत्र-कस्कादयः ।२।३।१४॥ भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वाः साधवः स्युः । प्रातुष्पुत्रः, परमयजुष्पात्रम्, कस्कः, कौतस्कुतः ॥१४॥ नाम्यन्तस्था-कवर्गात पदान्तः कृतस्य सः शिड्-ना
न्तरेऽपि ।२।३।१५॥ एभ्यः परस्य पदस्यान्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य 'ष' स्यात, शिटा नकारेण चाऽन्तरेऽपि । आशिषा, नदीषु, वायुषु, वधूषु, पितृषु, एषा, गोषु, नौषु, सिषेवे; गीर्षु, हल्षुः शक्ष्यति, क्रुक्षु । शिड्नान्तरेऽपि- सर्पिष्षु, यजूंषि । पदान्तरिति किम् ? दधिसेक् । कृतस्येति किम् ? बिसम् ॥१५॥
समासेऽग्नेः स्तुतः ।२।३।१६॥