________________
७७
श्रीसिद्धहेमचन्द्रशन्दानुशासनम् गरी-गौरवाहे वर्तमानस्य द्वावेकश्चार्थो ‘बहुवद् वा' स्यात् । युवां गुरू, यूयं गुरवः । एष मे पिता, एते मे पितरः ॥१२४॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन
लघुवृत्ती द्वितीयस्याध्यायस्य द्वितीयपादः समाप्तः ।।२।२॥ मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम् । अधुना मूलराजस्तु, चित्रं लोकेषु गीयते ॥६॥
-xox --
(तृतीयः पादः) नमस-पुरसो गतेः क-ख-प-फि रः सः ।।३।१। गतिसंज्ञयोर्नमस्-पुरसोः क-ख-प-फि 'रस्य सः' स्यात् । नमस्कृत्य, पुरस्कृत्य । गतेरिति किम् ? नमः कृत्वा, तिम्रः पुरः करोति ॥१॥
तिरसो वा ॥२॥३॥२॥ गतेस्तिरसो रस्य कखपफि 'स् वा' स्यात् । तिरस्कृत्य, तिरःकृत्य । गतेरित्येव- तिरः कृत्वा काष्ठं गतः ॥२॥
पुंसः ।।३॥३॥ पुम्सः सम्बन्धिनो रस्य कखपफि 'स्' स्यात् । पुंस्कोकिलः, पुंस्खातः, पुंस्पाकः; पुंस्फलम् ॥३॥
शिरोऽधसः पदे समासैक्ये ।२।३।४॥ अनयो रेफस्य पदशब्दे परे 'स्' स्यात् समासैक्ये । शिरस्पदम्, अधस्पदम् । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरःपदम् ॥४॥ अतः कृ-कमि-कंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य ।२॥३५॥